सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (२२९) प्रशस्ता अजिहृदन् सुखयन्ति स्म । णिचि लुङि चङि रूपम् । कीदृशाः मन्द्रं गम्भीरं मधुरमानुवाना: वाश्यमानो: । 'आङि नुप्रच्छ थोरुप संख्या- नम्' इति तङ् | ‘णु स्तुतौ' इत्यादादिकस्य परस्मैपदत्वात् ।। ६७ ।। वर्तिष्यमाणमात्मानं सीता पत्युरिवाऽन्तिके | उदपश्यत्तदा तथ्यैर्निमित्तैरिष्टदर्शनैः ॥ ६८ ॥ - वर्तिष्यमाणमित्यादि – सीताऽपि तदा तस्मिन् काले पत्यू रामस्थान्तिके आत्मानं वर्तिष्यमाणमिव उदपश्यत् उत्प्रेक्षते स्मे । 'वृद्भयः स्यसनोः । ।१।३।९२।' इति विभाषावचनात्तङ् । निमित्तैश्चक्षुः स्पन्दनादिभिः । तथ्यैर- विसंवादिभिः इष्टदर्शनैः इष्टार्थप्रकाशकैः । दर्शन मिति 'कृत्यल्युटो बहुलम् । १३।३।११३।' इति कर्तरि ल्युट् ॥ ६८ ॥ निरवर्त्स्यन्न चेद्वार्ता सीताया वितथैव नः | अकल्प्स्यदुद्यतिः सर्वा हनुमानित्यचिन्तयत् ॥ ६९ ॥ इत्यात्मनेपदाधिकारः । निरवत्र्त्स्यतन्नियादि--—-चेदिति यद्यर्थे । यदि सीताया वार्ता न निरवर्त्स्यत निवृत्तिं नायास्यत्, तदा वृथैव निष्फलैव नोऽस्माकमुद्यतिः सर्वा । अयमुद्यमः समुद्रलङ्घनादिकः । अकल्प्स्यत् अभविष्यत् । इत्येवं हनुमान चिन्तयत् । क्रिया- तिपत्तौ लङ् । तत्र निरवर्स्यादिति 'वृद्भयः स्यसनोः ||१||३||९२|| इति विभाषा- परस्मैपदम् । अकल्प्स्यदिति 'लुट चक्लृपः | १|३|९३|| इति चकारात्स्य- सनोरपि भवति विभाषापरम्मैपदम् । उद्यतिरिति यमेः स्त्रियां क्तिन् ।३।३।९४ इतिकिनि 'अनुदात्तोपदेशवन तितनोत्यादी नामनुनासिकलोपो झालि किति । ६|४||३७|' इत्यनेन अनुनासिकलोपः ॥ ६९ ॥ इत्यात्मनेपदाधिकारः ॥ इतः प्रभृति कारकमधिकृत्याह-- अथ त्रिभिर्विशेषकम् । वृक्षाद्धृक्षं परिक्रामत्रावणाद्विभ्यतीं भृशम् । शत्रोस्त्राणमपश्यन्तीमदृश्यो जनकाऽऽत्मजाम् ॥ ७० ॥ १ सम्भावयति स्मेवेति भावः । २ सत्यैरित्यर्थः । ३ वार्ता वृत्तान्तः । 'वार्ता प्रवृतिर्वृत्तान्त' इत्यमरः । ४ इदमारभ्येत्यर्थकमव्ययम् 'कार्त्तिक्या: प्रभृति' इति भाग्योक्त्यैतद्योगे पञ्चमी च ।