पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२८ ) भट्टिकाव्ये जयमङ्गलासमेते- [अष्टमः- रोचिवास्योः ‘अणावकर्मकाच्चित्तवत्कर्तृकात् । १ । ३ । ८८ । इति प्राप्तम्यापि च परस्मैपदस्य'न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवदवसः | १ | ३ | ८९ | १ इति प्रतिषेधे णिचश्चेति तङ् ॥ ६४ ॥ मन्दायमानगमनो हरितायत्तरूं कपिः । द्रुमैः शकशकायद्भिर्मारुतेनाऽऽट सर्वतः ॥ ६५ ॥ मन्देत्यादि----कपिः सर्वतः सर्वत्र तामाट विजहार । यत्तदोर्नित्यसंबन्धा- त्तामिति गम्यते । मन्दायमानगमतः मन्दीभवद्गमनः । कीदृशम् । हरिताय - तरूं शादलीभवदृक्षाम् । अप्राणिजातेश्चेत्यू | द्रुमैरुपलक्षिताम् । कीदृशैः । शकशकायद्भिः शकस्वभावैः शकीभवद्भिः । केन मारुतेन । अत्रामन्दं मन्दं भवति अहरिता हरिता भवन्तीति लोहितादित्वात् क्यप् | अशकाः शका भवन्तीति वाक्ये ‘अव्यक्तानुकरणाद्व्यजवरार्धादनितौ |५|४|५७ | इति डाच् । तस्मिन्विषयभूते 'याचे बहुलं द्वे भवतः ।' 'नित्यमाब्रेडिते डाचीति वक्तव्याम्' इति पररूपत्वम् । डाजन्तात् शकशकाशब्दात क्यप् । 'वा क्यषः | १ | ३ | ९० || इति परस्मैपदम्, आत्मनेपदं च ॥ ६५ ॥ डाच अस्यन्दन्निन्दुमणयो व्यरुचन् कुमुदाऽऽकराः | अलौठिषत वातेन प्रकीर्णाः स्तबकोच्चयाः ॥ ६६ ॥ अस्यन्दन्नित्यादि-चन्द्रोदयादिन्दुमणयः अस्यन्दन् स्यन्दन्ते स्म । तामाटेति योज्यम् । व्यरुचन् कुमुदाकरा: कैरववनानि विराजितवन्तः । स्तबकोच्चयाः गुच्छराशयः । वातेन प्रकीर्णा: इतस्ततो विक्षिप्ताः सन्तः अलोठिपत लुठन्ते स्म । सर्वत्र 'यो लुङि | १|३|९९१ | इति विभाषा परस्मै पदम् । द्युतायश्च कृपूपर्यन्ताः ॥ ६६ ।। सीताऽन्तिके विवृत्सन्तं वर्त्स्यसिद्धिं प्लवङ्गमम् | पतत्रिणः शुभा मन्द्रमानुवानास्त्वजिह्लदन् || ६७ ॥ सीतेत्यादि ----सीतायाः अन्तिके समीपे विवृत्सन्तं वर्तितुमिच्छन्तं लवङ्गमं सिद्धि वर्त्स्यन्ती भविष्यन्ती सिद्धिः सीतादर्शनलक्षणा यस्य । 'वृद्धयः स्यसनोः ||१|३|९२ |' इति विभाषा तिपु । तं पतत्रिणः पक्षिणः शुभाः १ चन्द्रकान्तापरनामानि रत्नानीति प्राः | २ प्लवङ्गमं वानरभू, हनुमन्त मित्यर्थः ।