सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-सर्गः ] अधिकारकाण्डम् | ( २२७ ) अवादित्यादि-यस्य। मशोकवनिकायां वायुवतः शनैर्मन्दमवात् वाति स्म । तामाटेति वक्ष्यमाणेन संबन्धः । लतां नर्तयमानवत् नृत्यमिव कारयन् । नृतिश्चलने वर्तते । ततश्च । 'निगरणचलनार्थेभ्यश्च |१|३|८७|' इति परस्मै- पदं प्राप्तं 'न पादम्याङ्यमाङयसपरिमुहरुचिनृतिवदवसः |१|३|८९ । इति प्रतिषिद्धम् । ऋतवोऽन्योन्यसंपदः परस्परस्य विभूती: नायासयन्त नोप- पीडयन्ति स्म । संत्रस्ता रावणात् । आङ्पूर्वाद्यसेः चित्तवत्कर्तृकत्वात् ‘अणावकर्म्मकाच्चित्तवत्कर्तृकात् | १ |३| ८८ ।। इति परस्मैपदं प्राप्तं 'न पाद- म्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ।१।३।८९|| इति प्रतिषिद्धम् ॥ ६१ ॥ ज्योत्स्नाऽमृतं शशी यस्यां वापीर्विकसितोत्पलाः । अपाययत सम्पूर्णः सदा दशमुखाऽऽज्ञया || ६२ ॥ ज्योत्स्नेत्यादि --- यस्यां रावणाज्ञया शशी सदा संपूर्ण : सन् ज्योत्स्नामृतं वोपरिपाययत, पायितवान् । निगरणार्थत्वात्तिपि प्राप्ते 'न पादम्याङ्यमाङ्थ- सपरिमुहरुचिनृतिवदवसः |१|३|८९|| इति प्रतिषिद्धे णिचश्चेति तङ् ॥ ६२ ।। प्रादमयन्त पुष्पेषु यस्यां वन्द्यः समाहताः | परिमोहयमाणाभी राक्षसीभिः समावृताः ॥ ६३ ॥ प्रादमयन्तेत्यादि --- यस्यां बन्धः समाहृताः समानीताः पुष्पेषु कामं प्राद- मयन्त शमितवत्यः । तन्मतस्याचरणात् । कीदृश्यः । परिमोहयमाणाभिः व्यामोहेयन्ताभिः राक्षसीभिः परिवृताः । प्रदमिपरिमुह्योः 'अणावकर्म- काञ्चित्तवत्कर्तृकात् । १ | ३१८८|' इत्यनेन प्राप्तस्य परस्मैपदस्य 'न पादम्यादथ- माङयसपरिमुहरुचिनृतिवदवसः । १ । ३ । ८९ । इति प्रतिषेधे ‘णिचश्च । १ । ३ । १४ ।' इत्यात्मनेपदम् ॥ ६३ ॥ यस्यां वासयते सीतां केवलं स्म रिपुः स्मरात् । न त्वरोचयताऽऽत्मानं चतुरो वृद्धिमानपि ॥ ६४ ॥ यस्यामित्यादि --रिपुर्दशाननः स्मरात् कामाद्धेतो: केवलं निष्फलं यस्यां · सीतां वासयते स्म वासितवान् | न त्वरोचयत आत्मानं नैवात्मानमुपरो- चितवान् । चतुरोऽपि योषिदाराधनकुशलोऽपि । वृद्धिमानपि संपयुक्तोऽषि १ ‘वा गतिगन्धनयोः' लुङ् | २ वापीः दीर्घिका: । 'वापी तु दीर्घका' ' इत्यमरोक्तेः । ३ प्रपूर्वाद् ‘दमु उपशमे' इत्यस्य, परिपूर्वकात् 'मुह वैचित्ये' इत्यस्य चत्यर्थः ।