सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२६ ) भट्टिकाव्ये जयमङ्गलासमेते- दृष्ट्वा राघवकान्तां तां द्रावयिष्यामि राक्षसान् । तस्या हि दर्शनात्पूर्व विक्रमः कार्यनाशकृत् ॥ ५८ ॥ दृष्टेत्यादि - इयमसाविति राघवस्य कान्तां दृष्ट्वा द्रावयिष्यामि राक्षसान् पलाययिष्यामि । अत्र ‘अणावकर्मकाच्चित्तवत्कर्तृकात् । १ । ३ । ८८ ।' इत्यनेन परस्मैपदं, न तु 'बुधयुधनशजनेद्रुस्रुभ्यो णः | १|३|८६ |' इत्यनेनेति बोध्यम् । तस्याकर्मकस्य चित्तवत्कर्तृत्वात् । हि यस्मात् तस्याः सोताया दर्शनात्पूर्व विक्रमः कार्यमय सीतादर्शन रूपस्य नाशकृत् ॥ ५८ ॥ चिन्तयन्त्रित्थमुत्सुः प्रावयन्तीं दिवं वनैः । [ अष्टमः- अशोकवनिकामारादपश्यत् स्तबकाऽऽचिताम् ॥ ५९ ॥ चिन्तयन्त्रिस्यादि---इत्थं पूर्वोक्तप्रकारेण चिन्तयन्नारात्समीपे अशोकवनि- कामपश्यत् । उत्तुङ्गैरुच्चैवन दिवमाकाशं प्रावयन्तीं व्याप्नुवानाम् । दिवं यावदुन्नतैर्वृक्षैः पूर्णामित्यर्थः । 'बुधयुधनशजनेमुद्रुस्रुभ्यो णेः | १ | ३ |८६ | इति तिप् । प्रवतेरकर्मकस्याचित्तवत्कर्तृकत्वात् । अशोकवनिकायाश्चाचित्त- वतीत्वात् । स्तब काचिताम् अशोकपुप्पस्तव कैश्छन्नाम् ॥ ५९ ॥ अथ पञ्चभिः कुलकम् । तां प्राविशत् कपिव्याघ्रस्तरूनचलयञ्शनैः । अत्रासयन्वनशयान्सुप्ताञ् शाखासु पक्षिणः ॥ ६० ॥ तामित्यादि -- तामशोकवनिकां कपिव्याघ्रः कपिःव्याघ्र इवे शनैर्मन्दं प्राविशत् | तरुनैचलयन् अकम्पयन् | चलेरकर्मकत्वाञ्चित्तवत्कर्तृकादणावि- त्यनेन च लटः परस्मैपदं न तु 'निगरणचलनार्थेभ्यश्च |१|३|८७|' इत्यनेनेति बोध्यम् । तद्धि तत्र सकर्मकार्थं अचित्तवत्कर्तृकार्थं चेत्युक्तम् । वनश- या पक्षण: शाखाप्तायन् अत्रासन् । 'अणौवकर्मकाञ्चित्तवत्कर्त्तकात् । १|३|८८|' इत्यनेन परस्मैपदम् | बने शेरत इति 'अधिकरणे शेतेः । ३।२। १५ ।' इत्यच् । 'शयवासवासिष्वकालात् । ६ । ३ । १८' इति सप्तम्या विभाषा अलुक् ॥ ६० ॥ अवाद्वायुः शनैर्यस्यां लतां नर्तयमानवत् । नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्यसम्पदः ॥ ६१ ॥ १ हनुमानित्यर्थः । उपमितसमासोऽयम् | २ तरुनू वृक्षान् । 'विटपी पाद पस्तरुः । इत्यमरः ।