पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | (२२३) चोक्तम्-- ‘विलासलीला: किलकिंचितानि विव्वोकमोट्टायितविभ्रमाणि | विच्छित्तमा कुट्टिमिश्रितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते ।।' इति । लक्षणं चैषां नृत्यशास्त्रे ॥ ४७ ॥ स्वं कर्म कारयन्नास्ते निश्चिन्तो या झपध्वजः । स्वाऽयं कारयमाणाभिर्यूनो मदविमोहितान् ।। ४८ ॥ स्वमित्यादि - स्त्रमात्मीयं मोहनादिकर्म यादिव्यनारी: कारयन् अनुष्ठापयन् एष झषध्वजः कामदेवः निश्चिन्त आस्ते । ताभिराकुलमिति योज्यम् । 'हक्रो- रन्यतरस्याम् ।१।४।५३।' इति द्विकर्मकता | यूनः स्वार्थं स्वप्रयोजनं मैथुनाख्यं कारयमाणाभिः आकुलम् । ता हनुमानिति वक्ष्यमाणेन संबन्धः कीदृशान मदविमोहितान् मधुपानमदपरवशान् । ताभिः ॥ ४८ ॥ कीदृशीभिरित्याह --- कान्ति स्वां वहमानाभिः स्वविग्रहान् । नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः ॥ ४९ ॥ कान्तिमित्यादि ----स्वां कान्ति शोभां वहमानाभिः । यजन्तीभिः स्वावग्र- हान् ददतीभः कामिभ्यः । तत्र स्वं कर्मेति ‘णिचश्च । १ । ३ । ७४ ।' इत्यस्य विषयःः । कान्ति स्वां स्वविग्रहानिति स्वरितनि १ ।३ । ७२ ।' इत्यस्य विषयःः। 'विभाषोपपदेन प्रतीयमाने |१|३|७७ |' इति विभाषा आत्मनेपदम्। इत्यात्मनेपदाधिकारः । शेषभूतत्वात् परस्मैपदविधानमाह ---नेत्रैरिति । पश्यतां चित्तसंहतीः । चित्तसंदोहान् पिब न्तीभिरिव गृह्णन्तीभिरिव । 'शेषात्कर्तरि परस्मैपदम् । १ । ३ । ७८ ।। ।। ४९ ॥ ता हनूमान् पराकुर्वन्नगमपुष्पकं प्रति । विमानं मन्दरस्याद्रेरनुकुर्वदिव श्रियम् ॥ ५० ॥ ता इत्यादि


ता दिव्यनौरी: पराकुर्वन्नपक्षिपन् अगमत् । पुष्पकं प्रति

कुबेरस्य पुष्पकविमानं प्रति । 'विमानं तु पुष्पकम् ।" इति कुबेरविमानाभिधा- नोक्तेः । येन पुष्पकविमानेन जगाम । कीदृशं मन्दरस्याद्रेः श्रियमनुकुर्वदिव। 'अनुपराभ्यां कृञः | १ |३|७९|| कर्त्रभिप्राये चात्मनेपदस्य प्राप्तत्वात् ॥ ५० ॥ १ कान्तेर्वहनायोगेऽपि वहनोक्त्या तथा निबिडत्वाद्यतिशयं द्योतयति । - २ देवकुलोत्पन्ना रमणीरित्यर्थः । श्रियं शोभाम् ।