पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २२४ ) भट्टिकाव्ये जयमङ्गलासमेते- अथ युग्मम् । तास्मन् कैलाससंकाशं शिरःशृङ्गं भुजद्रुमम् । अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम् ॥ ५१ ॥ - । तस्मिन्नित्यादि – तस्मिन् विमाने रावणमैक्षिष्ट | कैलाससंकाशं कैलास- तुल्यम् । शिरःशृङ्गं शिरांसि शृङ्गाणीव यस्य | भुजद्रुमं भुजा द्रुमा इव यस्य । तं पर्वतस्य श्रियमभिक्षिपन्तम् अभिभवन्तम् । 'अभिप्रत्यतिभ्यः क्षिपः | १२|३३८० इति परस्मैपदम् । तस्य स्वरितेत्त्वात् कर्त्रभिप्राय आत्मनेपदं प्राप्तम् ॥ ५१ ॥ प्रवहन्तं सदामोदं सुप्तं परिजनाऽन्वितम् । मघोने परिमृष्यन्तमारमन्तं परं स्मरे ॥ ५२ ॥ [ अष्टमः - प्रवहन्तमित्यादि--सदामोदं कस्तूरिकादिपरिमलं प्रवहन्तम् । 'प्राद्वहः १|३|८१|' इति परस्मैपदं स्वरितेत्त्वात् । सुप्तं शयने संविष्टम् । परिजनान्वितं पारिपाश्चिकाधिष्ठितम् । मघोने इन्द्राय परिमृष्यन्तं असूयन्तम् । ‘परेर्मृषः १|३|८२।' इति परस्मैपदं मृषेः स्वरितेत्त्वात् । 'क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः।१।४।३७।' इति सम्प्रदानसंज्ञायां चतुर्थी । स्मरे कामे परमत्यर्थम् आरमन्तं विश्रमं कुर्वाणम् । 'व्यापरिभ्यो रमः | १|३|८३ | इति परस्मैपदम् | रमेरनुदात्तत्त्वात् ।। ५२ ।। व्यरमत्प्रधनाद्यस्मात् परित्रस्तः सहस्रहक । क्षणं पर्यरमत्तस्य दर्शनान्मारुताऽऽत्मजः ॥ ५३ ॥ व्यरमदित्यादि -- यस्माद्रावणात् सहस्रदृगिन्द्रः । परित्रस्त: 'भीत्रार्थानां भयहेतुः | १||४||२५|' इत्यपादाने पञ्चमी । प्रधनात् युद्धात् । व्यरमत् उप- रतव्यापारोऽभूत् । 'व्यापरिभ्यो रमः | १|३१८३|' इति परस्मैपदम् । 'वा जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्' इत्यपादाने पञ्चमी । तस्य दर्श- नान्मारुतात्मजः हनूमान् क्षणं पर्यरमत् तुष्टिमानभवदित्यर्थः । 'साधु रावण' इति । पूर्ववल्लङः परस्मैपदम् ॥ ५३ ॥ उपारंसीच्च संपश्यन् वानरस्तं चिकीर्पितात् । रम्यं मेरुमिवाऽऽधूतकाननं श्वसनोमिभिः ॥ ५४ ॥ १ 'निभसङ्काशनी काशप्रतीकाशोपमादयः ।' इत्यमर. | २ सन्नामोदस्तम् । 'आ मोदः सोऽतिनिर्हारी' इत्यमरः ।