पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२२२) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः - - करणयोश्च । १ । ३ । ७० ।। इति शालिनीकरणे न्यग्भावने आत्मनेपदम् । मतिरभवत् । कीदृशीत्याह - मिथ्या कारयत इति । अये राक्षसाधिपतिरै- देण्डवाहकैः यां घोषणों पुनः पुनः कारयति जागृत जागृतेति तां मिथ्या- नामविज्ञात एव प्रविष्टः । 'मिथ्योपपदात् कृञोऽभ्यासे । १ । ३ । ७१ ।' इति तङ् | अभ्यासश्च पुनः पुनःकरणम् ॥ ४४ ॥ अथ पञ्चभिः कुलकम् । गूहमानः स्वमाहात्म्यमटित्वा मन्त्रिसंसदः । नृभ्योऽपवमानस्य रावणस्य गृहं ययौ ॥ ४५ ॥ - गूहमान इत्यादि — स्वमाहात्म्यं स्वपराक्रमं गूहमान: आवृण्वन् । 'ऊदु- पधाया गोहः |६||४|८९| इत्यूत्त्वम् । 'स्वरितत्रितः कर्त्रभिप्राये क्रियाफले । १|३|७२|' इति तङ् | अटित्वा मन्त्रिसंसदः शुकसारणादिगृहाणि गत्वा राव- णस्य गृहं ययौ । कीदृशस्य | नृभ्योऽपवमानस्य कुप्यतः असूयतो वा । 'अपा- द्वदः ।१।३।७३’ इति तङ् । नृभ्य इति 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः । १|४||३७|' इति सम्प्रदानसंज्ञायां चतुर्थी ॥ ४५ ॥ कीदृशं गृहमित्याह दिशो द्योतयमानाभिर्दिव्यनारीभिराकुलम् | श्रियमायच्छमानाभिरुत्तमाभिरनुत्तमाम् ॥ ४६ ॥ दिश इत्यादि-दिशः द्योतयमानाभिः भासयमानाभिः ।' णिचश्च । १ । ३ । ७४ ।' इति तङ् | दिव्यनारीभिः : उत्तमाभिः प्रधाननायिकाभि- राकुलं व्याप्तम् । श्रियमनुत्तमा नतिशयवतीं आयच्छमानाभि: स्वोकुर्वाणाभिः | ‘समुदाभ्यो यमोऽग्रन्थे । १ । ३ । ७५ ।' इति तङ् ॥ ४६ ॥ नित्यमुद्यच्छमानाभिः स्मरसम्भोगकर्मसु । जानानाभिरलं लीला किलकिंचितविभ्रमान् ॥ ४७ ॥ -- यमित्यादि - स्मरसंभोगकर्मसु कामोपभोगक्रियासु । नित्यमुद्यच्छमा- नाभिः उत्सहमानाभिः । पूववत्तङ । लोला जानानाभिः । 'अनुपसर्गाज्ज्ञः। १ । ३ । ७६ ।' इति तङ् । लीलाः स्त्रीणां शृङ्गारचेष्टाविशेषाः । तथा १ परोदन्तमवगन्तुं नियुक्तैः । 'चारश्च गूढपुरुषः' इत्यमरः । २ ‘उच्चैर्घुष्टं तु घोषणा |' इत्यमरः । ३ ' मन्त्री धीसचिवोऽमात्यः' इत्यमरः ।