सर्गः 1 अधिकारकाण्डम् | ( २२१ ) सक्ष्णुवान इत्यादि -- रक्षसां, तरुणो गण: उत्कण्ठां प्रियासु संस्मरणं संक्ष्णुवान इव समुत्तेजयन्निव । 'सम: क्ष्णुवः । १ । ३ । ६५ ।' इति तङ । ज्योत्स्नायां सुराम् अलं पर्याप्तमुपाभुङ्क्त अभ्याहृतवान् । 'भुजोऽनवने | १३| ६६।' इति तङ् । विगलन्मानः ॥ ४० ॥ मध्वपाययत स्वच्छं सोत्पलं दयिताऽन्तिके । आत्मानं सुरताऽऽभोगविश्रम्भोत्पादनं मुहुः ॥ ४१ ॥ मध्वित्यादि --- कीदृशं मधु स्वच्छत्वात् सोत्पलतया सुरभित्वात् शोभनं जातं यतः स्वयमात्मानं मुहुरपाययत पायितवत् । 'णेरणौ यत्कर्म णो चैत्स कर्तानाध्याने । १ । ३ । ६७ ।' इति तङ् । दयितान्ति के दयितस्य समीपे । सुरताभोगः सुरतविमर्दः तत्र विश्रम्भः तस्योत्पादनं जनकम् । उत्पादयतीति ‘कृत्यल्युटो बहुलम् । ३ | ३ | ११३ ।' इति कर्तरि युट् ॥ ४१ ॥ अभीषयन्त ये शक्रं राक्षसा रणपण्डिताः । अविस्मा पयमानस्तान्कपिराटीद् गृहाद् गृहम् ॥ ४२ ॥ अभीषयन्तेत्यादि --- एवं रक्षःसु यथायथं चेष्टमानेषु ये राक्षसा रणपण्डिताः संग्रामविज्ञाः शक्रमभीषयन्त भीषितवन्तः । 'भीम्योर्हेतुभये ||१|३|६८ |' इति तङ्।‘भियो हेतुभयै पुक्।७।३।१०।' इति पुक | भयग्रहणमुपलक्षणं तेन स्मयतेरपि भवति । तानसौ कपिरविस्मापयमानः विस्मयमकारयन् । 'नित्यं स्मयतेः ।६। १॥५७ |' इत्यात्वम् | गृहाद् गृहमाटीत गतवान् । लुङि रूपम् ॥ ४२ ॥ सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान् । अवञ्चयत मायाश्च स्वमायाभिर्नरद्विषाम् ॥ ४३ ॥ सीतामित्यादि —स कपिः सतां दिदृक्षुः सीतां द्रष्टुमिच्छुः प्रच्छन्नः राक्ष- सानगर्धयत व्यामोहयत् । स्वमायाभिश्च नरैद्विषां मायाश्च अवञ्चयत अतिसंहि- तवान् । 'गृधिवञ्च्योः प्रलम्भने |१|३|६९ | इति तङ् ॥ ४३ ॥ अपलापयमानस्य शत्रूंस्तस्याऽभवन्मतिः । मिथ्या कारयते चारैर्घोषणां राक्षसाऽधिपः ॥ ४४ ॥ अपेत्यादि--तस्य कपेः शत्रून् राक्षसान् अपलापयमानस्य न्यक्कुर्वतः । 'विभाषा लीयतेः । ६ । १ । ५१ ।' इत्यात्वे | 'लियः सम्माननशालिनी- १ राक्षसानामित्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५९
दिखावट