पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- ( २२० ) शतसाहस्रमारक्षं मध्यगं रक्षसां कपिः । ददर्श यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम् || ३७ ॥ शतेत्यादि-मध्यगं मध्यप्रकोष्ठगतम् आरक्षं गोपकं शतसाहस्रं रक्षसां लक्षमात्रं ददर्श विलोकितवान् । शतसहस्रं परिमाणमस्येति प्राग्वते : संख्यापूर्वपदानां तदन्तग्रहणमलुकति वचनात् । 'शतमानविंशतिकसहस्र- वसनाद्ण् । ५ । १ । २७ ।' इति अणि 'संख्यायाः संवत्सर सङ्ख्यस्य च १७।३।१५।' इत्युत्तरपदवृद्धिः । भीषणं भयानकम् आसाद्य प्राप्य | कृतान्तो Sपि यमोऽपि म्रियेत प्राणान् संत्यजेत् । 'कृतान्तो यमुनाभ्राता शमनो यमराड्यमः ।' इत्यमरः । 'म्रियतेर्लुङलिङोच |१|३|६१|| इति तङ् । तत्र हि शित इत्यनुवर्तते ॥ ३७ ॥ अध्यासिसिषमाणेऽथ वियन्मध्यं निशाकरे । कासांचक्रे पुरी सौधैरतीवोद्भातिभिः सितैः ॥ ३८ ॥ [ अष्टमः - अधीत्यादि -- अथ निशाकरे चन्द्रमसि वियन्मध्यं अध्यासितुमारोदुमि- अच्छति सति | 'पूर्ववत्सनः |१|३|६२ |' इत्यात्मनेपदम् । अस्तेरनुदात्तत्त्वमात्म- नेपदनिमित्तम् । तेनैव सन्नन्तादपि भवति । अत्र सनि इटि कृते अजादेर्द्वितीय- स्येति द्विवचनम् । पुरी लङ्का कासांचक्रे शोभते स्म । सौघैः सौधानां ज्योत्स्न- या चोद्भायमानत्वात् । 'आम्प्रत्ययवत् 'कृञोऽनुप्रयोगस्य | १ | ३ | ६३।१ इति तङ् ॥ ३८ ॥ इन्दुं चषकसंक्रान्तमुपायुङ्क यथाऽमृतम् । प्रयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ॥ ३९ ॥ संक्ष्णुवान इवोत्कण्ठामुपाभुङ्ग सुरामलम् । ज्योत्स्नायां विगलन्मानस्तरुणो रक्षसां गणः ॥ ४० ॥ अत्रालीलवं सन्धिवशात्स्पष्टम् । - इन्दुमित्यादि — एवं शोभितायां लङ्कायां समाजानुरत: पानगोष्ठीरतो जनः चषकसंक्रान्तं मद्यभाजने प्रतिबिम्ब्रेन संक्रान्तमिन्दुमुपायुङ्क्त उपभुक्तवान् । · प्रतिबिम्बावच्छिन्नस्य मद्यम्योपलक्ष्यमाणत्वावेमुक्तम् । यथाऽमृतं अमृतामिव । प्रिया अनुकूला वाचः प्रयुञ्जानः अभिधानः । 'प्रोपाभ्यां यज्ञरात्रभु । ११ ३१६४ | इति तङ् ॥ ३९ ॥