पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२१९) सर्गः ] अधिकारकाण्डम् । पदम् । वाचा उपलम्भनं शरीरस्पर्शनम् 'लाघहुस्थाशपां ज्ञीप्स्यमानः । १।४ ३४।' इति सम्प्रदानसंज्ञायां चतुर्थी । तासां ज्ञापयितुमिष्यमाणत्वात् ॥ ३३ ॥ प्रादिदृक्षत नो नृत्यं नाऽशुश्रूषत गायनान् । रामं सुस्मूर्षमाणोऽसौ कपिर्विरहदुःखितम् ॥ ३४ ॥ प्रादिक्षतेत्यादि – असौ कपिर्लङ्कायां नो नृत्यं प्रादिक्षत | गायनान् गायकान् । 'गस्थकन् |३|१||१९४६ | युट् च | नाशुश्रूषत न श्रोतुमिष्टवान् किमिति रामं विरहदुःखितं सुस्मूर्षमाणः स्मर्तुमिच्छन् । सन्नन्तेभ्यः पूर्व- वदात्मनेपदम् । ‘अज्झनगमां सनि | ६|४|१६|' इति दीर्घत्वम् । 'उदोष्ठ्यपूर्वस्य ।७।१।१०२।' इत्युत्त्वम् ॥ ३४ ॥ अनुजिज्ञासतेवाऽथ लङ्कादर्शन मिन्दुना । तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत ॥ ३५ ॥ अन्वित्यादि -- अथैतस्मिन् प्रस्तावे इन्दुना चन्द्रेण उदैयत उदितम् । इणो भावे लङि रूपम् । पूर्वस्यां दिशीति पूर्णेनेति दर्शयति । दृश्यते यत् दर्शनं रूपम् ।, लङ्काया रूपमनुजिज्ञासतेव । पूर्वेण प्राप्तस्यात्मनेपदस्य 'नानोई - |१|३|५८|' इति प्रतिषेधः । तमोपहास्तमोविध्वंसमाना: विमुक्ताः प्रेरिता अंशवो यस्मिन् उदये । अतः |३|२|१४४ |' इति हन्तेः । ‘अग्नीन्द्वर्कास्तमोऽपहाः । इत्यमरः इति ॥ ३५ ॥ आशुश्रूषन् स मैथिल्या वार्ता हर्म्येषु रक्षसाम् । शीयमानाऽन्धकारेषु समचारीदशङ्कितः ॥ ३६॥ आशुश्रूषन्नित्यादि -- स कर्मेिथिल्याः सीताया वार्तामाशुश्रूपन् श्रोतुमि- - च्छन् । 'प्रत्याभ्यां श्रुवः ||३|५९| इत्यात्मनेपदप्रतिषेधः । रक्षसां हम्ये॑षु गृहेषु । समचारीत् संक्रान्तवान् । 'अतो लगन्तस्य |७|२|२|' इति वृद्धिः । शीयमानान्धकारेषु अपगच्छत्तमःसु । 'शल शातने' । 'शदेः शितः । १ । ३ । ६० ।। इति तङ् । 'पात्राध्मास्थाम्नादाणदृश्यर्तिसतिंशद- सदां पिबजिग्रवमतिष्ठमनयच्छपश्यच्छ्घौसीयसीदाः । ७१३७८|' इति शीया- देशः । अशङ्कितः शङ्कारहितः ।। ३६ ।। १ नो नैवेत्यर्थः । 'अभावे नानो नापि' इत्यमरः | २ मस्तादे प्रकरणे । g