पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१८ ) भट्टिकाव्ये जयमङ्गलासमेते- यथास्वं संगिरन्ते स्म गोष्ठीषु स्वामिनो गुणान् । पानशौण्डाः पथः क्षीबा वृन्दैरुदचरन्त च ॥ ३१ ॥ यथास्वमित्यादि–ब्रह्मराक्षसाः पिशाचाश्च यथास्वमात्मीयस्य स्वामिनो गुणान् गोष्ठीषु गोष्ठीमध्ये संगिरन्ते स्म अभ्युपगतवन्तः । 'समः प्रतिज्ञाने ११|३|५२' इति तङ् । पानशौण्डा : पानसक्ताः क्षीबा मत्ताः सन्तः पथो मार्गानुदचरन्त उत्क्रम्य गच्छन्ति स्म । 'उदश्वरः सकर्मक | १|३| ५३ ।” इति तङ् । वृन्दैरिति सम्भूयेत्यर्थः ॥ ३१ ॥ यानैः समचरन्ताऽन्ये कुञ्जराऽश्वरथाऽऽदिभिः । सम्प्रायच्छन्त वन्दीभिरन्ये पुष्पफलं शुभम् ॥ ३२ ॥ यानै रित्यादि -- अन्ये योनैः कुञ्जरादिभिः समचरन्त संचरन्ते स्म । ‘समस्तृतीयायुक्तात् ।१|३|५४|' इति तङ् । अन्ये बन्दीभिरानीताभिः । सम्प्र- दाने तृतीया । अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वचनाद्वन्दीभ्यै इत्यर्थः । पुष्पफलं शोभनं संप्रायच्छन्त ददति स्म । 'दाणश्च सा चेच्चतुर्थ्यर्थे |१|३|५५ |' इति तङ् । पुष्पफलमिति जातेरेकवद्भावः ॥ ३२ ॥ [ अष्टमः- कोपात् कांश्चित् प्रियैः प्रत्तमुपायंसत नाऽऽसवम् । प्रेम जिज्ञासमानाभ्यस्ताभ्योऽऽशप्सत कामिनः ॥ ३३ ॥ कोपादित्यादि--काश्चित् स्त्रियः कोपात् अन्यस्त्रीगमनजनितात् आमद्यविशेष नोपायंसत न स्वीकृतवत्यः । 'विभाषोपयमने |१|२|१६|' इत्यकित्त्वपक्षे रूपम् । 'उपाद्यमः स्वकरणे |१|३|५६|| इति तङ् । पाणिग्रहणपूर्वस्य स्वीकरणस्य तत्र स्थितत्वा दौपचारिकमत्र स्वीकरण द्रष्टव्यम्। ‘समुदाभ्यो यमोऽग्रन्थे |१|३|७५|' इति वा तङ् । उदाङ्पूर्वस्य यम आदानार्थत्वात् । अवसर प्राप्तं सूत्रद्वयमुपाहृतं स्यात् । प्रियैः प्रत्तं दत्तम् । ‘अच उपसर्गात्तः ।७।४।४७ |' इति ददातेः । प्रेम जिज्ञासमानाभ्यः किमस्मासु प्रेमास्ति वा न वेति कृतको प्रकाशेन ज्ञातुमिच्छन्तीभ्यः । 'ज्ञानुस्मृदृशां सनः |१|३|५७ |' इति तङ् | ताभ्यो योषिद्भथः । कामिन : अशप्सत न मे त्वदन्या प्रियास्तीति तदीयशरीरस्पर्शनेन शपथं चक्रुः । 'शप उपालम्भने' इत्यात्मने- १ उत्पूर्वकस्य चरतेरुच्चारणार्थकत्वम्मलोत्सर्गार्थकत्वं वा प्रसिद्धम् । 'सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् ।' इत्यमरः | ३ 'बन्दिनः स्तुति- पाठका: ।' 'इत्यमरः । ४ मैरेयमासवः सीधुः' इत्यमरः ।