सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् | (२१७) संजानानानित्यादि-- रावणस्यार्थेषु कार्येषु ये चरन्तीति 'चरेष्टः । ३। २।१६।' 'तान् बहून् संजानानान् चेतयतः परिहरन् । अनाध्याने तङ् | रात्रौ समाविशत् प्रविष्टवान् । अरिदुर्गमां राक्षसदुर्गमाम् । वदमानो भासमानः । ‘भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः | १ |३|४७|| इत्यात्मनेपदम् ॥ २७ ॥ कंचिन् नोपावादिष्टाऽसौ केनचिद् व्यवदिष्ट न । सर्गः ] ॥ ण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात् ॥ २८ ॥ कंचिदित्यादि-असौ प्रविष्टः सन् न कंचिदुपावदिष्ट उपसान्त्वित- वान् । उपसम्भाषायां तङ् । केनचिद्वयवदिष्ट न, न भाषितवान् विमतौ तङ् । विमतिर्नानामतिः । शृण्वन् आकर्णयन । जनात् संप्रव दमानात् संभूय भाषमाणात् । रावणस्य संबन्धिनो गुणान् । 'व्यक्त- वाचां समुच्चारणे |१|३|४८|' इत्यात्मनेपदम् । जनानां व्यक्तवाक्त्वात् ॥ २८॥ जल्पितोत्क्रुष्टसंगीतमनृत्तस्मितवालगतैः । घोषस्यान्ववदिष्टेव लङ्का पूतकतो: पुरः ॥ २९ ॥ जल्पितेत्यादि--पूतक्रतोरिन्द्रस्य या पू: पुरीत्यर्थः ।' पूः स्त्री पुरी नगर्थ्यो वा' इत्यमरः । तस्या अमरावत्याः सम्बन्धिनो घोषस्यान्ववदिष्टेव लङ्का । पूताः ऋतवो यस्येति तस्य । अनुशब्द: सादृश्ये । सदृशं वादं कृत- वती । तैर्जल्पितादिभिः । उभयत्रापि जल्पितांदिघोषस्य तुल्यत्वात् । लङ्केत्ति तत्स्थो जन उच्यते । तेन व्यक्तवाग्विषयत्वात् । 'अनोरकर्मकात् । १॥३॥ |४९।' इति तङ् । तत्र व्यक्तत्राचा मित्यनुवर्तते न समुच्चारण इति ॥ २९॥ ऐद् विप्रवदमानैस्तां संयुक्तां ब्रह्मराक्षसः । सथाsवगिरमाणैश्च पिशाचैर्मासशोणितम् ॥ ३० ॥ ऐदित्यादि——तां ब्रह्मराक्षसः भयङ्करैर्निशाचरै: संयुक्तां हनूमान् ऐत् जगाम । इणो लङि रूपम् । विप्रवदमानैः परस्परविरुद्धार्थाभिधायिभिः । विप्रलापात्मके व्यक्तत्राचां समुच्चारणे 'विभाषा विप्रलापे ११/३/५० | इति तङ् । तथा पिशाचैर्मासशोणितमवगिरमाणैः भक्षयद्भिः संयुक्ताम् । गिरतेरभ्यवहारार्थत्वात् 'अवादू मः |१|३|५१|' इति तङ् | मांसशोणितमिति 'जातिर प्राणिनाम् |२|४|६|' इत्येकवद्भावः ॥ ३० ॥ १ भाषणादिभिरित्यर्थः । अत्र भावे क्तः ।