पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१६ ) भट्टिकाव्ये जयमङ्गलासमेते- जले विक्रममाणाया हनुमाञ् शतयोजनम् । आस्यं प्रविश्य निरगादणूभूयाऽमचेतितः ॥ २४ ॥ जल इत्यादि -- विक्रममाणायाः पद्भयां विचरन्त्याः | 'वेः पादविहरणे |१||३|४|१||' इति तङ् । जलग्रहणात् गतिविशेषं दर्शयति । आस्यं शत- योजनं शतं योजनानि यस्य प्रमाणतः । अत्र शतयोजनपदं लक्षणया बहुयो- जनपरमेव बोध्यम्, अन्यथा शतयोजनावधाबुदधौ तस्या एकदेशेऽवस्थानं न सङ्गच्छेत । तदणूभूय सूक्ष्मीभूय प्रविश्य निरगात् निर्गतः । उदर विदायें- त्यर्थात् । अप्रचेतितः अविज्ञातः ॥ २४ ॥ द्रष्टुं प्रक्रममाणोऽसौ सीतामम्भोनिधेस्तटम् । उपास्ताऽऽकुलं घोरैः क्रममा निशाचरैः ॥ २५ ॥ [ अष्टमः- द्रष्टुमित्यादि - - असौ हनूमान् सीतां द्रष्टुं प्रक्रममाणः आरभमाण: आदिकर्मणि यथा भोक्तुं प्रक्रमते इति । उद्धेस्तटमुपास्त मन्तु प्रारब्धवा- नित्यर्थः । ततश्च प्रोपयोरादिकर्माण समानार्थत्वात् 'प्रोपाभ्यां समर्थाम्याम् । १|३|४२|' इति तङ् | घोरैः रौद्रैः ! निशाचरैराकुलं व्याप्तम् । तटं क्रममाणैः इतस्ततो गच्छद्भिः | 'अनुपसा |||३|४३ |' इति तङ् ॥ २५ ॥ आत्मानमपजानानः शशमात्रोऽनयद्दिनम् । ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रियापटुः ॥ २६ ॥ आत्मानमित्यादि — मो कश्चिद्राक्षीदिति तथाविधमात्मानं शरीरमव- जानान: अपवह्नान: 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवमंच' इत्यमरः । ‘अपह्नवे ज्ञः १ |२|७४४|' इति तङ् । यो हि शशमात्रो भूत्वा स्थितः तेन कथमात्मा लोके नापलपित: स्यात् । अनयद्दिनम् अगमयद्दिवसम् । ज्ञास्ये रात्राविति प्रत्यज्ञास्त प्रतिज्ञातवानित्यर्थ: । 'सम्प्रतिभ्यामनाघ्याने ।१।३।४६।' इत्यात्मनेपदं लुङो भवति । आध्यानं चोत्कण्ठनम् । ज्ञास्ये इत्यकर्मकाच्चेत्य कर्मक क्रियावचनत्वादात्मनेपदम् 14 प्राज्ञः क्रियापटुरिति बुद्धिकौशलं कर्मकौशलं च दर्शयति ॥ २६ ॥ संजानानान् परिहरन् रावणाऽनुचरान् बहून् | लङ्कां समाविशद् रात्रौ वदमानोऽरिदुर्गमाम् ॥ २७ ॥ १ अत्र 'मा' इत्येव निषेधार्थकमव्ययम्, न तु 'माङ् ' अन्यथाऽटी लोपः प्रसज्येत ।