पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (२१५) हरिरिन्द्रो नाधिचक्रे न प्रसेहे । 'अधेः प्रसहने । १ । ३ । ३३ ।' इति तङ् । तस्य बलं दशाननस्य सामर्थ्यम् । कीदृशं स्वरान् विकुर्वाणं विविधान् स्वरान् कुर्वाणम् । ' वेः शब्दकर्मणः । १ । २ । ३४ ।। इति तङ् । तस्य दशाननस्य बलं निहन्मि ॥ २० ॥ विकुर्वे नगरे तस्य पापस्याऽद्य रघुद्विषः | विनेष्ये वा प्रियान् प्राणानुदानेष्येऽथवा यशः ॥ २१ ॥ विक्कुर्व इत्यादि -- तस्य रघुद्विषो रामशत्रोः पापस्य नगरे पुर्या अहमद्य विकुर्वे विविधं चेष्टे। ‘अकर्मकाच्च ||१||३|४|१५|' इति तङ् | इति तत्र विकुर्वाणो यदि वा प्रियानपि प्राणान् स्वाम्यर्थे विनेष्ये अपनेष्यामि । 'सम्माननोत्स- जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः |१| ३ | ३६ ।' इति व्यये तङ् । यतो धर्मादिषु विनियोगो व्ययः । यशो वा उदानेष्ये ऊर्ध्वं नेण्यामि तस्यापकारकरणात् । अत्रोत्सञ्जने तङ् | उत्सञ्जनमुत्क्षेपणम् ॥ २१ ॥ विनेष्ये क्रोधमथवा क्रममाणोऽरिसंसदि । इत्युक्त्वा से पराक्रंस्त तूर्णं सुनुर्नभस्वतः ॥ २२ ॥ विनेष्य इत्यादि — यदि वा क्रोधमात्मनो विनेष्ये अपनेष्यामि । 'कर्तृस्थे चाशरीरे कर्म्मणि। १ । ३ । ३७ ।' इति तङ् । कर्तृस्थस्य क्रोधकर्मणो- Sशरीरत्वात् अत्र व्ययो न संभवतीति । अरिसंसदि शत्रुसभायां क्रममाणः अप्रतिबन्धेन प्रवर्तमानः । 'वृत्तिसर्गतायनेषु क्रमः । १ । ३ । ३८ ।' इाते वृत्तौ तङ् । वृत्तिरप्रतिवन्धः । इत्येवमुक्त्वा सूनुर्नभस्वतः वायोस्तनयः खे तूर्णं परास्त शीघ्रमुत्से । 'उपपराभ्याम् । १ । ३ । ३९ । ' इत्यनेन सर्गे तङ् । सर्ग उत्साहः ।। २२ ॥ परीक्षितुमुपास्त राक्षसी तस्य विक्रमम् । दिवमाक्रममाणेव केतुतारा भयप्रदा ॥ २३ ॥ परीत्यादि—तस्य हनूमतो विक्रमं शौथ परीक्षितुंराक्षसी उपास्त उत्सेहे । पूर्वंवत्तङ् | दिवमाक्रममाणेव । यथा केतुः स्वर्भानुः तारा नभस्युद्गच्छति भयंकरा | ‘आङ उद्गमने | १ | ३|४० |' इति तङ् । तत्र हि 'ज्योतिरुद्गमन--' इत्युक्तम् । केतुतारायाश्च ज्योतिःस्वभावत्वात् ॥ २३ ॥ १ 'अत्र रघुशब्दो लक्षणया राघवपरः |