पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२१४) भट्टिकाव्ये जयमङ्गलासमेते- न चैवं मिथ्या वायुर्मे सुहृदित्याह- के न संविद्रते वायोमैनाकाऽद्रेिर्यथा सखा । यत्नादुपाइये प्रीतः संहृयस्व विवक्षितम् ॥ २७ ॥ । क इत्यादि – वायोमैनाकाद्रिर्यथा सखेति के न संविद्रते जानन्ति । वेत्तेः पूर्ववदात्मनेपदम् । 'वेत्तर्विभाषा । ७ । १ । ७ ।” इति रुट् । तस्मात् प्रीतःः सन् अहं यत्नादुपाह्वये भवन्तमाह्वयामि । ततः संह्वयम्व कथय विवक्षितमाभ- प्रतम् । ‘निसमुपविभ्यो ह्रः | १ | ३ | ३० । इत्यकर्त्रभिप्राये लट्लोटोरा- त्मनेपदम् । ततोऽकर्मकादिति तिवृत्तम् । सामान्येन विधानम् ॥ १७ ॥ [ अष्टमः - द्यामिवाह्वयमानं तमवोचद्भूधरं कपिः । उपकुर्वन्तमत्यर्थं प्रकुर्वाणोऽनुजीविवत् ॥ १८ ॥ द्यामित्यादि--द्यामिवाकाशमिवाह्वयमानं महत्तया स्पर्धमानम् । 'स्पर्द्धा- यामाङः । १ । ३ । १ ।' इत्यात्मनेपदम् । अत्यर्थमुपकुर्वन्तं आतिथ्येन तमी- दृशं भूधरमवोचत् । कपिः प्रकुर्वाणः सेवमानोऽनुजीविवत् भृत्यवत् । 'गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । १ । ३ ।३२।१ इति सेवने तङ् ।। १८ ॥ कुलभार्थी प्रकुर्वाणमहं द्रष्टुं दशाननम् । यामि त्वरावान् शैलेन्द्र ! मा कस्यचिदुपस्कृथाः ॥ १९ ॥ कुलभार्या मित्यादि - अहं दशाननं द्रष्टुं यामि कुलभार्थी प्रकुर्वाणं कुल- नारीमभिगच्छन्तम् । तस्यां सहसा प्रवर्तमानमित्यर्थः | साहसिक्ये तङ् | स्वरा- वान् त्वरायुक्तः । अतः हे शैलेन्द्र ! मा कस्यचिदशनपानादिकस्य उपस्कृथाः अतिशयवन्तं मा कार्षीरित्यर्थः । 'माङि लुङ् । ३ । ३ । १७५ ।' प्रतियत्ने तङ् । ‘तनादिभ्यस्तथासोः । २ । ४ । ७९ । इति सिचो लुक् । 'उपात्प्रतियत्न- वैकृतवाक्याध्याहारेषु च । ६ । १ । १३९ ।' इति सुट् । कस्यचिदिति ‘कृञः प्रतियत्ने | २ | ३ | ५३ ।। इति कर्मणि षष्ठी ।। १९ ।। योऽपचक्रे वनात् सीतामधिचक्रे न यं हरिः । विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ॥ २० ॥ य इत्यादि — यः सीतामपचक्रे अभिबभूव । अवक्षेपणे तङ् | वनादिति वनमुपगम्य 'ल्यब्लोपे कर्म्मण्यधिकरणे च' इति ल्यब्लोपे कर्मणि पञ्चमी । १ प्रकरोते रभिगमनार्थकत्वं विरुद्धमिव ।