पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] अधिकारकाण्डम् । तदेव दर्शयन्नाह -- अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत् । रविर्वितपतेऽत्यर्थमाश्वस्य मयि गम्यताम् ॥ १४ ॥ (२१३ ) अव्यग्रमित्यादि -- हे वीर ! अव्यग्रमनाकुलं यथा स्यात्तथा मय्युपतिष्ठरव सन्निहितो भव । ‘अकर्मकाच्च | १|३|२६|' इत्यात्मनेपदम् । यतो वायोस्तव पितुरहं सुहृत् । रविरत्यर्थं वितपते दीप्यते । 'उद्विभ्यां तपः ।१।३।२७।' इत्यात्मनेपदम् । तत्राकर्मकादिति वर्तते । तस्मादाश्वस्य विश्रम्य गम्यताम् ॥१४॥ तीव्रमुत्तपमानोऽयमशक्यः सोढुमातपः | आम्नान इव संदीप्तरलातैः सर्वतो मुहुः ॥ १५ ॥ - तीव्रमित्यादि – तीव्रं सुष्ठु अतिशयितं वा यथा तथा उत्तपमानो दीप्यमान आतपः सोढुमशक्य: । पूर्ववदात्मनेपदम् । अलातैः उल्मुकै: संदीप्तैः सर्वत आन्नान इवे ताडयन्निव | 'आङो यमनः | १२|३|२८|' इत्याविवक्षितकर्मकत्वा- दात्मनेपदम् ‘गमहनजनखनघसां लोपः कित्यनङि |६|४|१८|' इत्युपधालोप: 'हो हन्तेन्नेिषु |७|३|५४ |' इति कुत्वम् ॥ १५ ॥ 6 संकृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः | समारन्त ममाऽभीष्टाः सङ्कल्पास्त्वय्युपागते ॥ १६ ॥ शृणुष्वेत्यादि-हे कपे! संशृणुष्व आकर्णय | 'समो गम्यृच्छिभ्याम् | १॥३॥ २९ ।' इत्यत्र अर्तिक्षुदृशिभ्यश्चेति वक्तव्यम् ।" इत्यविवक्षितकर्मकत्वादात्मने- पम् । शुभैः शोभमानैः । इगुपधलक्षणः कः । वनैर्मत्कैः मत्स्वामिकैः । अहं स्वामी येषामिति । स एषां ग्रामणीः |५|२|७८ |' इति कः । 'प्रत्ययोत्तरपदयोश्च । ७ । २ । ९८ ।' इति मदादेशः । संगच्छस्व संगतो भव । पूर्ववदात्मनेपदम् । समारन्त ममाभीष्टा इति ममाभिप्रेता ये संकल्पा अभिप्रायाः 'कदा नु मे सुहृत्तया वा कश्चिदेष्यति यस्याहमुपयोगी स्याम्' इति ते समारन्त आगताः त्वय्युपागते सति । अर्तेर्लुङिः पूर्ववदात्मनेपदम् । 'सर्विशास्त्यतिभ्यश्च । ३ । । १ । ५६ ।' इत्याडे 'ऋदृशोऽङि गुणः । ७ । ४ । १६ ।' आडजादीनाम् । ६ । ४ । ७२ ।' भाषाविषयस्य प्रयोगः ॥ १६ ॥ समासः । १ 'इवेन समासो विभक्त्यलोपः । पूर्वपदस्य प्रकृतिस्वरत्वं च इतीवेन