पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २१२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः- फलानीत्यादि -- चित्राणि नानाविधानि फलानि आदत्स्व गृहाण | 'आङो दोऽनास्यविहरणे । १ । ३ |२०|' इत्यात्मनेपदम् | सानुषु ममैकदेशेषु परिक्री- डस्व विहर । पक्षिणां च वृन्दानि साधु शोभनं अनुक्रीडमानानि विह- रन्ति सन्ति पश्य । उभयत्र 'क्रीडोऽनुसंपरिभ्यश्च | १|३|२१|' इति तङ् ॥ १०॥ क्षणं भद्रावतिष्ठस्व ततः प्रस्थास्यसे पुनः । न तत् संस्थास्यते कार्य दक्षेणोरीकृतं त्वया ॥ ११ ॥ क्षणमित्यादि -- हे भद्रं कल्याण ! क्षणमवतिष्ठस्व ! ततः पश्चात्प्रस्थास्य यास्यसि । यच्च कार्ये करणीयं दक्षेणानलसेन अप्रमत्तेनेति भावः । त्वया ऊरी- कृतमङ्गीकृतं न च संस्थास्यते अपि तु निष्पत्स्यत एवेत्यर्थः । सर्वत्र 'समवप्र- विभ्यः स्थः ।१।३।२२।' इति तङ् ॥ ११ ॥ त्वयि न॑स्तिष्ठते प्रीतिस्तुभ्यं तिष्ठामहे वयम् । उत्तिष्ठमानं मित्राऽर्थे कस्त्वां न बहु मन्यते ॥ १२ ॥ त्वयीत्यादि--त्वयि विषये अस्माकं प्रीतिरस्ति | तेन संशये अस्माभि- रन्यो निर्णेता नान्वेषणीयः । किंतु नोऽस्माकं प्रीतिरेव निर्णयं पश्यन्ती त्वयि तिष्ठते । ‘प्रकाशनस्थेयाख्ययोश्च ||१|३|२३|| इत्यात्मनेपदम् । विवादपदनि- गैँता स्थेय उच्यते । तुभ्यं तिष्ठामहे वयमिति त्वयि विषये अस्माकं चेतो वर्तत इति स्वाभिप्रायम् । तुभ्यं तिष्ठामहे स्वाभिप्रायं निवेदयाम इत्यर्थः । अत्र प्रकाशनं च स्वाभिप्रायकथनम् । 'श्लाघहुस्थाशपां ज्ञीप्स्यमानः |१॥४॥ ३४ |' इति सम्प्रदानसंज्ञायां चतुर्थी । कस्मादेवं मां श्लाघस इति चेदाह । उत्ति- ठमानं यतमानम् । 'उदोऽनुर्ध्वकर्माणि |१|३|२४||' इत्यात्मनेपदम् । कस्त्वां न बहु मन्यते न लाघते ॥ १२ ॥ ये सूर्यमुपतिष्ठन्ते मन्त्रैः संध्यात्रयं द्विजाः | 'रक्षोभिस्तापितास्ते ऽपि सिद्धिं ध्यायन्ति तेऽधुना || १३ || य इत्यादि - ये द्विजा मन्त्रैः करणभूतैः सूर्यमुपतिष्ठन्ते प्रत्युपासते । 'उपान्म- न्त्रकरणे |१|३|२५|' इत्यात्मनेपदम्। संध्यात्रयं त्रिसंध्यम्। 'कालाध्वनोरत्यन्त- संयोगे २|३|५|' इत्यनेनात्यन्तसंयोगे द्वितीया । तेऽपि रक्षोभिस्तापिताः उप- द्रुताः अधुना ते सिद्धिं ध्यायन्ति । किं पुनरहं यत्ते पितुः सुहृत् ॥ १३ ॥ १।२१५९ १ 'श्व: श्रेयसं शिवम्भद्रम्' इत्यमरः | २ 'अस्मदो द्वयोश्च १ | इति बहुवचनम् । एवं पुरस्तादपि प्रत्येतव्यम् ।