सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२१० ) भट्टिकाव्ये जयमङ्गलासमेते- [ अटमः- । पयोनिधिरूर्मिभिः स्वमूर्ति वितस्तार । पयोनिधेश्च वेला तटं गच्छतो यत्र स्वमू- तिविस्तारावसरो भावी तत्र हरिः स्वमूर्ति वितस्तार | तथा पयोनिधेर्ये मार्ग गन्तुमवसरो भविता, हरिरुत्पत्य तं मार्ग गन्तुमैच्छत् । यं च हरे मार्ग गन्तुमवसरो भविता तं मार्ग पयोनिधिरभ्रंलिहैरूर्मिभिरैच्छत् । यत्र यत्क्रि- यावसरे क्रियां करोति स तत्र तत्क्रियाकारीत्युपचर्यते । यथा देवदत्तसाध्यां क्रियां यज्ञदत्तः कुर्वन् तत्कारीत्युच्यते । ततश्चेतरेणेतरसंबन्धिन्याः क्रियायाः करणात् अन्यतरसंबन्धिन्याश्चेतरकरणात् सम्भवति कर्मव्यतिहारः || ३ || व्यतिजिग्ये समुद्रोऽपि न धैर्यं तस्य गच्छतः । व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः ॥ ४ ॥ व्यतीत्यादि- तस्य हरेर्गच्छतः स्वदेहस्याल्पतां कर्तुं योऽवसरो भावी तत्र समुद्रो नातिशयधैर्ये कृतवान् । तेन तस्य धैर्य न जितं, तदानीं तस्यो- द्धतकल्लोलत्वात् । अपिशब्दाच्च हनुमानपि समुद्रस्य शान्तत्वं कर्तुं योऽवसरो भावी तत्र नातिशयधैर्य कृतवान् | तेन तस्य धैर्य वा न जितं, तदानीं तस्य विपुलकायनात् । तदेवं हनूमतः समुद्रो हनूमानपि समुद्रस्य धैर्ये न व्यति- जिग्ये नानिवभूव । एकवचनस्य प्रत्येकाभिसंबन्धात् । कर्मव्यतिहारे पूर्ववदा- त्मनेपदम् । ‘सन्लिटोर्जे: |७|३|५७ |' इति कुत्वम् । तस्य हनूमतो गतं गमन प्रचण्डोऽपि महान् प्रभञ्जनो वायुर्न व्यत्यगच्छत् प्राप्तवान् ॥ ४ ॥ तस्यातिजवेन गच्छतः पथि राक्षसी संप्राप्ता तामसी व्यापादित वानित्याह- व्यतिघ्नन्तीं पथि घ्नन्तं राक्षसी पवनाऽऽत्मजः । जघानाऽऽविश्य वदनं निर्यान् भित्वोदरं द्रुतम् ॥ ५ ॥ व्यतीत्यादि - - हनिष्याम्येनमिति राक्षस्या यो वधकरणावसरः तत्र व्यतिघ्नन् व्यतिघ्नन्तीं तस्यैनां हनिष्यामीति यो वधकरणावसरः तत्र नन्तीं सदेवभितरेतरक्रिया करणेन व्यतिघ्नन्तीं राक्षसीम् । 'न गति हिंसार्थेभ्यः १ | ३ | १५ | हिंसार्थत्वादात्मनेपदप्रतिषेधः । तां पवनात्मजो हनूमान् जघान । कथं वदनमांविश्य उदरं भित्त्वा द्रुतं निर्यान् निर्गच्छन् । याते: शतरि रूपम् ॥५॥ अन्योन्य स्म व्यतियुतः शब्दान् शब्ढैस्तु भीषणान् । उदन्वांश्चानिलोडूतो म्रियमाणा च राक्षसी ॥ ६ ॥ अन्योन्यमित्यादि - अन्योन्यमित्यन्योन्यस्येत्यर्थः । 'कर्मव्यतिहारे सर्व- भवतः स्त्रीनपुंसकयोरामभाव इति वक्तव्यम् । अन्योन्यस्य जानो