पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | अष्टमः सर्गः । (२०९) आत्मनेपदमधिकृत्याह-- अगाधत ततो व्योम हनूमानुरुविग्रहः । अत्यशेरत तद्वेगं न सुपर्णार्कमारुताः ॥ १ ॥ - अगाधतेति - ततो विसर्जनानन्तरं हनूमान् समुद्रलङ्घनाय व्योमाकाश- मगाधत प्रस्थितवान् । 'गावृप्रतिष्ठा लिप्सयोः ।' इत्यस्माल्लङ्' | 'अनुदात्त ङित आत्मने पदम् ||१|३|१२|' इत्यनुदात्तेत्त्वादात्मनेपदम् | उरुविग्रहः काम- रूपित्वात् तदानीमुत्पादितविपुलकायः । तस्य चोत्पततो वेगं गरुडादित्यपवनाः नात्यशेरत नातिशयितवन्तः । ङित्त्वात्तङ् । 'शीडो रुट् |७|१|६|' | ‘शीङ: सार्वधातुके गुणः।७।४।२१।' ॥ १ ॥ अभायत यथार्केण सुमातेन शरन्मुखे । गम्यमानं न तेनाऽऽसीदगतं कामता पुरः ॥ २॥ - अभायतेत्यादि – यथा अर्केण सुप्रातेने सुप्रभातेन नीहाराद्यभावात् शोभनं प्रातरनेनेति । 'सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठ- पदाः ||५|४|१२०|' इति समासान्तनिपातनम् । शरन्मुखे शरदारम्भे । अभायत दीप्यते स्म । 'भावकर्मणः ||१||३|१३|' इति भावे तङ् | तद्वत्ते- नाभायत । पुरोऽग्रतो यदर्केण गम्यमानमवष्टभ्यमानं वर्त्मेत्यर्थात् । कर्मण्यात्मनेपदम् । तेन हनूमता कामता गच्छता । शिति 'क्रमः परस्मैपदेषु । ३।७।७६।' इति दीर्घत्वम् । नागतमासीत् अपि तु सर्वमेव गतमिति ॥ २ ॥ वियति व्यत्यतन्वातां मूर्ती हरिपयोनिधी । व्यत्यैतां चोत्तमं मार्गमकेंन्द्रेन्दुनिषेवितम् ॥ ३ ॥ वियतीत्यादि--हरिपयोनिधी हनुमत्समुद्री मूर्ती स्वदेहौ वियत्याकाशे व्यत्यतन्वातां व्यतिविस्तारितवन्तौ । तनोतेर्लङ् । 'कर्तरि कर्मव्यतिहारे |१|३|१४|' इत्यात्मनेपदम् । उत्तमं च मार्ग अर्केन्द्रेन्दुनिषेवितं व्यत्यैतां व्यतिगतवन्तौ । इणः परस्य लङ: कर्मव्यतिहार इत्यात्मनेपदं प्राप्तं 'न गति- हिंसाभ्यः |१|३|१५|' इति गत्यर्थत्वात् प्रतिषिद्धं, तेन तसस्तामादेशः । तत्र हरेर्गच्छतः पुरतो यस्मिान्वयत्प्रदेशे स्वमूर्ति विस्तारितुमवसरो भविता, तत्र १ यद्वा शोभनं प्रभातमस्यति तेन तथोक्तेन । शोभनत्वं च तस्य प्रकृत्यो. ज्ज्वलस्य मेघाद्यावरणाभावादेवेति बोध्यम् । १४