(२०८ ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः- |१|२|२५|' इति कित्त्व विकल्पः । तत्सलिलस्य स्वादुत्वात् । सरितां पयः स्वादु पिबन्तं अनिशमजस्रम् ॥ १०६ ।। 226 युतित्वा शशिना नक्तं रश्मिभिः परिवधितम् । मेरोर्जेतुमिवाभोगमुच्चैदँद्योतिषु मुहुः ॥ १०७ ॥ युतित्वेत्यादि — शशिना नक्तम् रात्रौ युतित्वा दीप्तिमता भूत्वा । रश्मिभिः परिवर्धितं वृद्धिं नीतं सन्तं तोयधिं मेरोराभोगं महत्त्वं जेतु- मिव मुहुरुच्चैर्विद्योतिपुं वर्धितुमिच्छुमित्यर्थः । अनेकार्थत्वाद्धातूनाम् । द्युतित्वा दिद्योतिषुमिति 'रलो व्युपधाद्धलादेः संश्च |१||२|२६|' इति कित्त्वा- कित्त्वे । तत्र ह्युकारोपधादिकारोपधाच्च रलन्ताद्धलादेर्धातोः परौ क्त्वा- सनौ वा न किती भवत इति सूत्रार्थः ॥ १०७ ।। विलोक्य सलिलोच्चयानधिसमुद्रमअंलि हान् भ्रमन्मकरभीषणं समधिगम्य चाधः पयः | गमागमसहं द्रुतं कपिवृषाः परिप्रैषयन् गजेन्द्र गुरुविक्रमं तरुमृगोत्तमं मारुतिम् ॥ १०८ ॥ विलोक्येत्यादि--कपिवृषाः कपिमुख्या मारुतिं हनूमन्तं द्रुतं परिप्रै- षयन् व्यसर्जयन् । परिप्रपूर्वात् 'इष गतौ' इत्यस्मात् हेतुमण्ण्यन्तात् लङि रूपम् । किं कृत्वेत्याह । विलोक्य सलिलोच्चयान् सलिलोमन् । ऊर्ध्वं चीयत इति 'एरच् | ३|३|५६ |' इत्यच् | अधिसमुद्रं समुद्रस्योपरि । अभ्रं- लिहान् दूरमुच्छ्रितान् । अधश्च पयः समधिगम्य ज्ञात्वा । कीदृशम् भ्रमद्भिर्मकरैर्भीषणं भयानकम् । भीषयतीति नन्द्यादित्वाल्ल्युः । गमागम- सहं गमनागमनयोग्यं मारुतिम् । गजेन्द्रस्येव गुरुर्विक्रमो यस्य | तरुमृ- । 'सप्तमी शौण्डैः । २ । १ । ४ ।' इत्यत्र सप्तमीति योगविभागात् समासैः ॥ १०८ ॥ ॥ इति ङित्त्वाधिकारः ।। इति श्रीजयमङ्गलसूरिविरचितया जयमङ्गलाख्यया व्याख्यया समलं- कृते श्रीभट्टिप्रणीते रामचरितकाव्ये द्वितीयेऽधिकारकाण्डे लक्षणरूपे द्वितीयः परिच्छेदः, लक्ष्यरूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः । १ इदं रात्रावित्यर्थकमव्ययम् 'नक्तं च रजनावपि' इत्यमरः । २ अत्र पृथ्वीछन्दः 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति तलक्षणात् ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४६
दिखावट