पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Mi सर्ग: ] अधिकारकाण्डम् । योज्यम् । ‘उपसर्गात् खल्घञोः । ७ । १ । ६७ ।' इति सुदुर्भ्या केवलाभ्याम् |७|१||६|| इति प्रतिषेधः ॥ ८३ ॥ ईषदाढयङ्करोऽप्येष न परत्राऽशुभक्रियः । अस्मानत्तुमितोऽभ्येति परिग्लानो बुभुक्षया ॥ ८४ ॥ ( २०१ ) प्राप्तस्य नुमः ‘न ईषदित्यादि - य एष अस्मानत्तुमितः प्रदेशादभ्येति आगच्छति स परत्र परलोके ईषदाढयङ्करोऽपि अनाढयैरीषदाढयोऽपि न कृतः । अशुभेन कर्मणेत्यर्थात् । 'कर्तृकर्मणोच भूकुञोः |३|३|१२७|' इति चयर्थे कर्मो- पपदात्करोतः खळ् । यतः परिग्लानो बुभुक्षया । यो हि कर्मणा शुभेन ईषदाढ्यङ्करोऽपि न कृतः स कथं न बुभुक्षया पीडयते । परिग्लायतीति कर्तार बहुलवचनात् ल्युट् । निष्ठान्तो वा । 'संयोगादेरातो धातोर्यण्वतः |८|२|४३॥ इति निष्ठानत्वम् । अशुभक्रियः सत्त्वद्रोहाभिरतत्वात् ॥ ८४ ॥ ' सम्प्राप्य वानरान्पक्षी जगाद मधुरं वचः । के यूयं दुरुपस्थाने मनसाऽप्यद्रिमूर्धनि ॥ ८५ ॥ इति कृदधिकारः । सप्राप्येत्यादि - - वानरान् संप्राप्य पक्षी जगाद गदितवान् । के यूयं अद्रि- मूर्धनि पर्वतशिरसि दुरुपस्थाने दुःखेनोपस्थातुं शक्ये मनसापि किं पुनः शरी- रेण । आतो युच् । ३ । ३ । १२८ ।' इति युच् । तत्रापि ईषदादयोऽनुवर्तन्ते । कर्तृकर्मणोरिति न स्मर्यते ।। ८५ ।। इति कृदधिकारः ॥ इतः परं प्रकीर्णकश्लोकानाह-- आत्मनः परिदेवध्वे कुर्वन्तो रामसंकथाम् । समानोदर्यमस्माकं जटायुं च स्तुथाऽऽदरात् ॥ ८६ ॥ आत्मन इत्यादि-आत्मन: परिदेवध्वे शोचथ' देव देवने' इति भौवादिकः शसि ‘न संयोगाद्वमन्तात् । ६ । ४ । १३७ ।' इत्यल्लोपो न भवति । जटायुं च समानोदर्यै भ्रातरमस्माकम् । 'समानोदरे शयित ओ चोदात्तः ||४|४|१०८। इति यत् । आदरात् प्रस्तुथ प्रस्तुतिं कुरुथ । जटायु: पुण्यकृदित्यादिना रामसत्कथां च कुर्वन्तः अतः के यूयमिति ।। ८६ ॥ १ अत्तुं-भक्षितुम् । २ अस्मादित्यर्थः | ३ दुष्कृतीत्यर्थः । ४ देवनमत्र विलापः ।