पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- (२०२) शङ्काधवित्रवचनं प्रत्यूचुर्वानरा खगम् । वयं शत्रुलवित्रेषोर्दूता रामस्य भूपतेः ॥ ८७ ॥ [ सप्तमः - शङ्केत्यादि - धुनोत्यपनयत्यनेनेति धवित्रम् । 'अर्तिलूधूसूखनसहचर इत्र: ।३।२।१८४|इति करणे इत्रः । किमयं करिष्यतीति शङ्काघवित्रं वचनं यस्य तं खगं वानराः प्रत्यूचुः । शत्रुलवित्रा इषवो बाणा यस्य तस्य रामस्य भूपतेः वयं दुताः । पूर्ववदित्रं कृत्वा समासाः ॥ ८७ ॥ केनाऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् । हृतां माहाकुंलीनस्य तस्य लिप्सामहे वयम् ॥ ८८ ॥ केनेत्यादि–तस्य रामस्य प्रियां केनापि दौष्कुलेयेन' हृताम् | दुष्कुलस्या- पत्यमिति ‘दुष्कुलाड्ढक् । ४ । १ ।१४२ ।' इति ढक् । कुल्यां कुले साध्वीम् 'तत्र साधुः।४।४।८९।इति यत् । माहाकुलीं माहाकुलीनस्येति महाकुलस्यापत्यमिति 'महाकुलादञ्खनौ । ४ । १ ।१४१ ।' इति अञ्खनौ । लिप्सामहे वयं लब्धु- मिच्छामः ॥ ८८ ॥ त्रिंशत्तममहर्यात मत्वा प्रत्यागमाऽवधिम् । अकृतार्था विषीदन्तः परलोकमुपास्महे ।। ८९ ॥ त्रिंशदित्यादि - त्रिंशतः पूरणम् । 'विंशत्यादिभ्यस्तमडन्यतरस्याम् |५| २१५६|' इति तमटू । त्रिंशत्तमं यदहः तत् प्रत्यागमावधिं प्रत्यागमनस्या- वधिं यातं अतीतं मत्वा अकृतार्था अनिष्पादितप्रयोजना विषीदन्तो विषादं गच्छन्तो व्याकुलीभवन्त इत्यर्थः । वयं परलोकमुपास्महे प्रायोपवेशनेन त्रियामहे ।। ८९ ॥ म्रियामहे न गच्छामः कौशल्यायनिवल्लभाम् । -- उपलम्भ्यामपश्यन्तः कौमारी पततां वर ॥ ९० ॥ म्रियामह इत्यादि - - हे पततां पक्षिणां वरं म्रियामहे प्राणांस्त्यजाम | न गच्छामः न प्राप्नुमः । किमिति कौमारीम् अकृतपूर्वदारपति लव्धव- तीम् । 'कौमारापूर्ववचने | ४ | २|१३|| इति साधुः | कौशल्यायनिवल्लभाम् । कौशल्याया अपत्यं कौशल्यायनी रामः 'कौशल्य कामर्याभ्यां च । ४ । १ यद्यपि रावणवंशप्रवर्त्तकः पुलस्त्यो न स्वयं दुष्टः, किंतु तस्य दुष्टत्वेना पुलस्त्यस्यापि दुष्टत्वमिति यथोक्तम् । २ सम्पातिन्नित्यर्थः ।