पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२००) भट्टिकाव्ये जयमङ्गलासमेते- [सप्तमः- तं विलोक्य | वानरा अशुभाकरं पापस्योत्पत्तिस्थानम् । आकर इवाकरः । ‘पुंसि संज्ञ.यां घः प्रायेण | ३|३|११८|| तत्र हि करणाधिकरणयोरिति वर्तते । एवम् उत्तरत्रापि चात्मानं पापगोचरं पापविषयं पापविषये पतिता वयमिति मुहुरशोचन् शोचितवन्तः । 'गोचरसञ्चरवव्रजव्यजापणनिगमाश्च | ३ | ३॥ १९९।' इत्यधिकरणे निपातितः ॥ ८० ॥ जटायुः पुण्यकृत्पक्षी दण्डकारण्यसञ्चरः । कृत्वा राघवकार्यं यः स्वराऽऽरूढोऽग्निसंस्कृतः ॥ ८१ ॥ जटायु रित्यादि- राघवकार्यकृत्वा । अग्निसंस्कृतः अग्निना कृतसंस्कारः । कृतान्त्यसंस्कार इत्यर्थः । स्वैः स्वर्गमारूढः । जटायु: पुण्यकृत्पक्षी | संचरत्य- स्मिन्निति संचरः । पूर्ववत् निपातितः । दण्डकारण्यं संचरोऽवस्थानं यस्येति ॥ ८१ ॥ नरकस्थावतारोऽयं प्रत्यक्षोऽस्माकमागतः । अचेष्टा यदिहान्यायादनेनात्स्यामहे वयम् ॥ ८२ ॥ नरकस्येत्यादि-अवतीर्यते येन कर्मणेति । 'अवे तृोर्घञ्] | ३|३| १२०।' इति घञ् । स एवायं नरकस्यावतारः प्रत्यक्षोऽस्माकमागतः । यद्यस्माद्व- यमचेष्टाः निश्चलाः अनेन पक्षिणा अन्यायादयुक्त्या | नीयते अनेनेति निपूर्वादिण: 'अध्यायन्यायोद्यावसंहाराच | ३ | ३ | १२२ ।' इति निपातनात् वञ् । अत्स्यामहे भक्षयिष्यामहे । कर्मणि लट् ॥ ८२ ॥ हृदयोदङ्क संस्थानं कृतान्ताऽऽनायसन्निभम् । शरीराऽऽखनतुण्डाऽग्रं प्राप्याऽमुं शर्म दुर्लभम् ॥ ८३ ।। हृदयेत्यादि-अनुं सम्पातिनं पक्षिणं प्राप्य । कीदृशं हृदयोदकसंस्था- नम् उदश्चयते आकृप्यते अनेनेति उत्पूर्वादश्चतेः 'उदकोऽनुदके |३|३| १२३|' इति घञ् निपात्यते । हृदयस्योदकः संदंशः तत् संस्थानं तत्स- दृशम् । कृतान्तानायसन्निभं यमजालतुल्यम् । तत्प्रविष्टस्य दुःखेन निर्गमत्वात् । 'जालमानायः | ३||३||१२४ ।' इति नयतेराङ्पूर्वात्करणे घञ् निपात्यते । आखन्यते येन तुण्डाग्रेण । 'खनो घ च | ३ | ३ | १२५ ।' इति घः । शरीरस्याखनं वाक् तुण्डाग्रं यस्येति । प्राप्य शर्म सुखं दुर्लभं कृच्छ्रलभ्यम् । 'ईष- दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् | ३ | ३ | १२६ ।। इति खल । अत्र करणाधि- करणयोश्चेति निवृत्तम् 'तयोरेव कृत्यक्तखलर्थाः । ३ । ४ । ७० । इति १ 'स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।' इत्यमरः ।