पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । । अभावें भवतां योऽस्मिञ्जीवेत्तस्याऽस्त्वजीवनिः इत्युक्त्वा सर्व एवास्थुर्बद्धा योगासनानि ते ॥ ७७ ॥ - अभाव इत्यादि -- अभावे विनाशे भवतां योऽस्मिन् लोके जीवेत् तस्या- स्त्वजीवानः धिग्जीवितम् । 'आक्रोशे नव्यतिः | ३|३|११२|' एवमुक्त्वा सर्व एव अस्थुः स्थिताः । तिष्ठतेः 'गाविस्थाघुपाभूभ्यः परस्मैपदेषु।२।४।७७।' इति सिचो लुक् । योगासनानि पद्मासनादीनि बद्ध्वा विरचय्य || ७७ || इतः परं स्त्रीलिङ्गभावं निवर्त्य कृदुदाहियते-- अक्लेश्यमसिनाइयन्तं कबन्धवधमभ्यधुः | ( १९९) धि नः प्रपतनं घोरं क्लेदान्तत्वमनाथवत् ॥ ७८ ॥ अक्लेश्यमित्यादि--कबन्धस्य योजनबाहोर्वधमभ्यधुः अभिहितवन्तः । अभिपूर्वो धानभिधाने वर्तते । कीदृशम् अक्लेश्यं प्रयासरहितम् । कस्मातू असिना सुखमरणात् तं चाभ्यन्तम् अन्ते तस्याग्निरभूत् । अस्माकं धिक प्रपतनं विनाशम् । दुःखेन घोरत्वात् । दोन्तत्वम् अन्ते पूतीभावं तद्यत्रास्ति । अर्श आदित्वादच् | अनाथानामिव । अक्लेश्यप्रपतनशब्दौ भावसा- धनौ ।' कृत्यल्युटो बहुलम् | ३|३|११३|| इति ल्युट् ॥ ७८ ॥ ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम् । अशनीयमिवाशंसुर्महानायादशोभनः ॥ ७९ ॥ तत इत्यादि -- ततोऽभिधानादनन्तरं महान् पक्षी सम्पातिनामा जटायु भ्राता । आयात् आगतवान् । मन्दगतो मन्दगमन: । 'नपुंसके भावे क्तः ।३।३।११४।' आहिताग्नित्वात् परनिपातः । तेषां यत्प्रायोपवेशनं तदशनीय- मिव भोजनीयमिव। ‘कृत्यल्युटो बहुलम् ||३|३|११३|' इति कृत्यः । आशंसुः आशंसनशीलः । अशोभन: शोभारहितः । दावाग्निना प्लुष्टशरीरत्वात् । 'ल्युट् च |३|३||११५ |' इति भावे ल्युट् । 'कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम् । ३।३ । ११६ । इत्येतत्परिहृत्योदाहृतत्वात् ॥ ७९ ॥ देहब्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम् । पापगोचरमात्मानमशोचन वानरा मुहुः ॥ ८० ॥ देहेत्यादि----वृश्च्यते येन तुण्डाग्रेण । 'करणाधिकरणयोश्च | ३|३|११७ | १ इति करणे ल्युट् । देहस्य ब्रश्चन मिति कृद्योगे षष्टी । देहवश्वनं तुण्डाग्रं १ भावात् सद्भावाद्विरुद्धस्तत्र |