( १९८) भट्टिकाव्ये जयमङ्गलासमेते- प्रायोपासनया शान्ति मन्वानो वालिसम्भवः । युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्तवेदनाम् ॥ ७३ ॥ प्रायेत्यादि --उपासनेति । ‘ण्यासश्रन्थो युच् । ३ । ३ । १०७ । प्रोयण अविच्छेदेन उपवासेनोपासना अनशनेनासनमित्यर्थः । तया शान्तिं कल्याणं मन्वानोऽवगच्छन् उपयान्तराभावात् । वालिसम्भवोऽङ्गदः । ‘योगश्चित्तवृत्तिनिरोधः । इत्युक्तस्तं युक्त्वा सम्बध्य शैले स्थितः । चित्त- वेदनां चित्तपीडां विवृण्वन् । 'घट्टिविदिवन्दिभ्यो युज् वक्तव्यः' इति वार्तिकेन युच् ॥ ७३ ॥ [ सप्तमः - प्रस्कन्दिकामिव प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् । धिक् शालभञ्जिकामख्यान् विषयान् कल्पनारुचीन् ॥ ७४ ॥ प्रस्कन्दिकामित्यादि- - त्वया का क्रिया कर्तव्यत्यन्यः पृष्टः सन् जाम्ब- वान् ध्यात्वा विचिन्त्य ब्रूते स्म । प्रस्कन्दिकाभिव रोगविशेषभिव प्राप्तो यातः उत्साहाभावात् । 'रोगाख्यांयां ण्वुल् बहुलम् |३|३|१०८ | शालभञ्जिका क्रीडाविशेषः । 'सञ्ज्ञायाम् |३|३|१०९|' इति ण्वुल् । 'नित्यं क्रीडा- जीविकयोः ।२।२।१७ |' इति समासः । तत्प्रख्या विषया रूपादयः अति- तुच्छत्वात् । अतस्तान् धिक् । किम्भूता कल्पनारुचीन् कल्पनीयान् ॥ ७४ ॥ यां कारिं राजपुत्रोऽयमनुतिष्ठति तां क्रियाम् । अहम प्यनुतिष्ठामि सो ऽप्युक्त्वैवमुपाविशत् ॥ ७५ ॥ यामित्यादि --- अयं राजपुत्रोऽङ्गदो यां कारिं क्रियाम् अहमप्यनुतिष्ठामि । 'विभाषाऽऽख्यान परिप्रश्नयोरिञ् च | ३|३|११०।१ इति करोतेरिञ् । पक्षे 'कृञः श च | ३|३|१०० |' इति शः । सोऽध्ये- वमुक्त्वा उपाविशत् अनशनेन स्थितः ॥ ७५ ॥ क्रियामनुतिष्ठति तां उवाच मारुतिर्वृद्धे संन्यासिन्यत्र वानरान् । अहं पर्यायसम्प्राप्तां कुर्वे प्रायोपवेशिकाम् ॥ ७६ ॥ - उवाचत्यादि - - मारुतिः पवननन्दनो हनुमानित्यर्थः नरानुवाच वृद्धे जाम्बवंति संन्यासिनि अनशनवति अहमध्यत्र शैले पर्यायेण परिपाट्या संप्राप्तां प्रायोपवेशिकाम् अनशनं कुर्वे । 'पर्यायाईणोत्पत्तिषु बुल् च । ३।३११११११ इति ण्वुच् ।। ७६ ।। १ भोजनपरित्यागेन । २ भोजनमकुर्वाण इत्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३६
दिखावट