पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | ( १९७ ) 6 व्रज्यावती निरुद्धाक्षान् विद्येवाऽनुष्ठितक्रियान् । निरचिक्रमदिच्छातो वानरांश्चङ्क्रमावतः ॥ ७० ॥ व्रज्येत्यादि- - सा व्रज्यावती प्रशस्तगमनवती । 'व्रजयजोवे क्यप् |३|३|९८।' प्रशंसायां मतुप् | वानरान्निरुद्धाक्षान् निरचिक्रमत् निष्कासित - चती । क्रमॆर्ण्यन्तस्य लुङि 'सन्वल्लघुनि चङ्परेऽनग्लोपे |७|४||९३|' इति सन्व- द्भावात् 'सन्यतः |७४।७९।' इतीत्वम् । दीर्घौ लघोः । ७।४।९४ | इति न दीर्घत्वं संयोगपरस्य गुरुत्वात् । अनुष्ठितक्रियानाचरिततदुपार्दष्टव्यापारान् । 'कृञः श च । ३।३।११० ।' इति शः । 'सार्वधातुके यक् |३|१||६७ | |' रिङादे- शश्च । चङ्कमावतः कुटिलगतिमतः । 'अ: प्रत्ययात् |३|३|१०२|' इत्यकारः । इच्छात इति वानराणामिच्छाया: । ' इच्छा | ३|३|१०१ || इति निपातितम् इषेः शप् प्रत्ययः छभावश्च निपात्यते । विद्या | 'संज्ञायाम् |३|३|९९।' इति क्यप्। यथा विद्या अनुष्ठितक्रियान् कृतपुरश्चरणान् पुरुषानिच्छातोऽभीष्टं सम्पा दयति तद्वत्सेति ॥ ७० ।। 6 निष्क्रम्य शिक्षया तस्यास्त्रपावन्तो रसातलात् । ज्ञात्वा मासमतिक्रान्तं व्यथामवललम्बिरे ॥ ७१ ॥ निष्क्रम्यैत्यादि---तस्याः शिक्षया उपदेशेन 'गुरोश्च हलः | ३|३|१०३ | ' इत्यकारः। तस्माद्रसातलान्निष्क्रम्य निर्गम्य त्रपावन्तः लज्जिता इति भावः । स्त्रिया उपदेशेन निष्क्रान्ता वयमिति त्रपति ‘षिद्भिदादिभ्योऽङ्|३|३|१०४ | मास- मतिक्रान्तं ज्ञात्वा बहिर्निर्गताः सन्तः व्यथां पीडां, लक्षणया भयमित्यर्थः । 'विद्भिदादिभ्योऽङ्।३।३।१०४ | अवललम्बिरे वयं मासावधिना प्रेषिताः स च मासी विनैव कार्येणातिक्रान्त इति स्वामिनो भयम् ॥ ७१ ॥ चिन्तावन्तः कथां चक्रुरुपधाभेदभीरवः । अकृत्वा नृपतेः कार्य पूजां लप्स्यामहे कथम् ॥ ७२ ॥ चिन्तेत्यादि- उपधानमुपधा परीक्षा । 'आतचोपसर्गे |३|३|१०६।' इत्यङ्। तत्परिशुद्धो हि भृत्यः कार्येषु नियुज्यते । तदकरणादुपधाया भेदोऽभावः तस्मा- द्भीरवः । चिन्तावन्त इतिकर्तव्यतामूढाः कथां चक्रुः कृतवन्तः । कीदृशीभित्या- छ । अकृत्वा नृपतेः कार्य पूजां लप्स्यामहे कथमिति नैवेत्यर्थः । चिन्तादयः । 'चिन्तिपूजि काथकुम्बिचर्चश्च |३|३|१०५|| इति अङन्ताः ॥ ७२ ॥ १ 'भेदोपजातायुपधा धर्माद्यैर्यत्परीक्षणम् ।" इत्यमरः । २ कार्येषु भृत्यांनि योजनादिव्यर्थः ।