पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - रक्षणमित्यादि -- हे शुभे ! कल्याणि कस्माद्वा रक्ष्णं रक्षां करोषि । एतद्य- त्नेनादरेण नोऽस्माकमाख्यायताम् । उभयत्रापि‘यजयाचयतविच्छप्रच्छरक्षो नङ् ।३।३।९०।' इति नङ् । यस्मात्स्वप्ने निधिवत् निधिरिव तव संदर्शनमाभाति । नोऽस्माकमति दुर्लभत्वात् । स्वप्न इति 'स्वपो नन् ३१३१९१||निधिरिति 'उपसर्गे घोः किः | ३|६|९२|| इति किः ॥ ६६ ॥ ततो जलधिगम्भीरान् वानरान् प्रत्युवाच सा । इयं दानवराजस्य पू: सृष्टिर्विश्वकर्मणः ॥ ६७ ॥ तत इत्यादि -- ततस्तस्मादनन्तरं सा प्रत्युवाच । जलंधीयते अस्मिन्निति ‘कर्मण्यधिकरणेच ।३।३।९३|' इत्यधिकरणेऽर्थे किः जलाधः समुद्रः । तद्वद्भ- म्भीरानक्षोभ्यत्वात् । इयं पू: दानवराजस्य विश्वकर्मणः सृष्टिः । सृज्यत इति सृष्टिः । कर्मणि 'स्त्रियां तिन् | ३|३|९४।" इति तिन् ॥ ६७ ।। इतः परं स्त्रीलिङ्गमधिकृत्योच्यते-- निहतश्च स्थिति भिन्दन्दानवोऽसौ बलद्विषा । दुहिता मेरुसावर्णैरहं नाम्ना स्वयम्प्रभा ॥ ६८ ।। निहत इत्यादि --- असौ दानवः दैत्यराजः स्थिति मर्यादां भिन्दन् । 'स्थागापापचो भावे | ३|३|९५॥ इति क्तिन् । बलद्विषा इन्द्रेण निहतः । यस्य चाहं दुहिता । स पिता । नाम्ना मेरुसावर्णिः अहं च नाम्ना स्वयंप्रभेति ||६८|| जूतिमिच्छत चेत्तर्ण कीर्ति वा पातुमात्मनः । करोमि वो बहिर्यूतीन्पिधध्वं पाणिभिर्हशः ॥ ६९ ॥ जूतिमित्यादि- यदि तूर्णं शीघ्रं जूतिं गमनमिच्छथ | कीर्ति वा आत्मतः पातुं रक्षतुम् 'पारक्षणे' तुमुन् । वः युष्मान् बहिर्यतीन् बहिर्भूतान् । 'ऊति- यूतिजूतिसातिहेतिकीर्त्तयश्च |३|३|९७१ इत्यादिना निपातितः । तत्र यौते- जेवतेश्च क्तिन् दीर्घत्वं च निपात्येते । कीर्तिरपि 'कृत संशब्द ने ' ‘उपधायाश्च |७|१२|१०१।' इतीत्वं तस्मात् तिन् । अतः पाणिभिः दृशो- दृष्टीः पिधध्वं आच्छादयध्वम् । अपिपूर्वाद्धाञ् लोटि द्विवंचने ‘ दधस्तथोश्च |८|२|३८|' इति अभ्यासस्य भभावे ' अभ्यस्तयोरातः ॥ ६ ॥ ४ ॥ ११२|' इत्याका- रलोपे ‘झलां जश् झशि । ८४ | ५३|' इति धातोदकारे 'वष्टि भागुरिंरल्लोप- मवाप्योरुपसर्गयोः । इत्युपसर्गाकारलोपे च रूपम् || ६९ ॥ १ रक्षण त्राणे रण: कणे' इत्यमरः | २ हरतैरित्यर्थ । स्वार्थको