सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् | ( १९५) सर्गः ] सेत्यादि- - साखी हसन्ती कपीन् स्वागतं वच आह । कीदृशी वि- घनेन्दुसमद्युतिः।विहन्यते अभिभूयते अन्या द्युतियँन स विघनः 'करणेऽयोविद्रषु । ३ । ३ । ८२ ।' इत्यप् घनादेशश्च । स चेन्दुश्चेति सः । तत्समा द्युतिर्य- स्याः । स्तम्बो हन्यते येन पादन्यासेन स स्तम्बन्नः । तृणकाष्ठादिः । 'स्तम्बे क च । ३ । ३ । ८३ ।’ इति करणे कः । 'गमहनजनखनघसां लोप: कृित्य- नङि । ६ । ४ । ९८।' इत्युपधालोपः । तादृशः पादन्यासो येषां कपीनामिति । परिहन्यते येन । ‘परौ घः | ३ | ३ | ८४ ।' इत्यप् घादेशश्च । परिघोऽर्गलः तदनुकारिणो विपुला बाहो येषामिति ॥ ६३ ॥ पिप्रायाद्विगृहोपन्नानुद्वान्सङ्घसमागतान् । फलैर्नानारसैश्चित्रैः स्त्राङ्कुशतश्च दारिभिः ॥ ६४ ॥ N पिप्रायेत्यादि -- तान्विविधैः फलैर्वारिभिश्च पिप्राय तर्पितवती । अद्रिगुहो पन्नान् । अद्रिगुहैव उपघ्ने आश्रयो येषां कपीनाम् | 'उपन्न आश्रये | ३|३८५ इत्य उपधालोपश्च निपात्यते । संघसमागतान्स मूद्देनागतान् । उद्घान् प्रशस्तान् । 'संघोघौ गणप्रशंसयोः | ३|३|८६|' इति समुदोरुपपदयोः इन्तेरपि टिलोपश्च निपात्यते ॥ ६४ ॥ संघसमागतान्समूहेनागतान् निघानिघतरुच्छन्ने तस्मिंस्ते लब्धिमैः फलैः । तृप्तास्तां भ्राजथुमती पप्रच्छुः कस्य पूरियम् ॥ ६५ ॥ - निघेत्यादि -- तस्मिन्प्रघणे निघानिघनमितानिमित्त हामिश्छन्ने | 'निघो निर्मितम् ।३।३।८७|' इति निपूर्वाद्धन्तेरपि टिलोपे नि । स णाहाभ्यां निमितमित्युच्यते । ते कपयः । लर्लािभनिर्वृत्तैः । ‘ड्वितः क्रिः । ३। ३ । ८८।' इति क्रिः । 'स्लेर्मम्नित्यम् । ४ । ४३० ।। इति मप् । फलैस्तृताः सन्तस्तां

स्त्रियं भ्राजथुमतीं शोभावतीम् । पप्रच्छुः पृष्टवन्तः कस्येयं पूरिति । 'द्वितोऽथुच् | ३|३|८९॥ तदन्तान्मनुप् ॥ ६५ ॥ रक्ष्णं करोषि कस्मात् त्वं यत्नेनाऽऽख्यायतां शुभे । स्वप्ने निधिवदाभाति तव संदर्शनं हि नः ॥ ६६ ॥ १ 'स्तम्बन्नस्तु स्तम्बघनः स्तम्बो येन विहन्यते । ' इत्यमरः । २ 'स्यादुपघ्नो- ऽन्ति काश्रये ।' इत्यमरः । ३ 'मतल्लिकामचर्चिकाप्रकाण्डमुद्दतल्लजौ । प्रशस्तवाचका- न्यमूनि' इत्यमरः ।