पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९४) भट्टिकाव्ये जयमङ्गलासमेते- कुर्वन्तो हवमाप्तानां पिपासावधकाङ्क्षिणः । द्वारं तमोघनप्रख्यं गुहायाः प्राविशन्द्रुतम् ॥ ६१ ॥ कुर्वन्त इत्यादि — गुहां प्रविश्य तस्याः द्वारमपरं प्राविशन् । आप्तानां स्निग्धानां हवमाह्वानं कुर्वन्तः । 'भावेऽनुपसर्गस्य | ३ | ३ | ७५ ।' इत्यप् संप्रसारणं च । पिपासा पातुमिच्छा तस्या वधोऽपनयनम् । 'हनश्च वधः । ३ । ३ । ७६ ।’ इत्यप् वधादेशश्च । तं काङ्क्षितुं शीलं येषामिति । ‘काक्षि माक्षि काङ्क्षायाम्' इत्यस्मात् 'सुप्यजातौ णिनिस्ताच्छील्ये । ३ । २ । ७८ ।। ‘इदितो नुम् धातोः । ७ । १ । ५८ ।' साधुकारिणि वा । कीदृशं द्वारं तमो- घनप्रख्यं तमसो घनः मूर्तिः काठिन्यं तेन सदृशम् । 'मूर्ती घनः ३|३|७७७।” इति इन्तेरप्प्रत्ययो घनादेशश्च निपात्यते । मूर्तिमत्तम इव मित्यर्थः ।। ६१ ।। तस्मिन्नन्तर्घेणेऽपश्यन्प्रघाणे सौधसझनः । लौहोघनघनस्कन्धा ललिताऽपघनां स्त्रियम् ॥ ६२ ॥ [ सप्तमे:- सोऽन्तर्घण इत्यु - तस्मिन्नित्यादि --द्वारमतिक्रम्य यः सावकाशप्रदेशः च्यते । तथाह्यन्तर्हन्यते क्रोडीभवत्यस्मिन्निति अनुगतार्थत्वम् । 'अन्तर्घनो देशे । ३ । ३ । ७८ ।’ इत्यन्तःपूर्वाद्धन्तेरप् घनादेशः । घणादेशो वा ये णकारं पठन्ति । यत्तु संज्ञीभूतो वाहीकेषु देशविशेष इत्युक्तं तत् संज्ञाशब्दमाश्रित्य । तस्मिन्नन्तरे यत् सौधसद्म धवलगृहं तस्य प्रेघाणे एकदेशे । 'प्रघण: श्रघाणश्च । ३।३। ७९ ।' इति निपातितम् । स्त्रियं ललितापर्धेनां ललिताङ्गीम- पश्यन् । 'अपघनोऽङ्गम् । ३ | ३ | ८१ ।। इति निपातनम् । लौहोघ- नघनस्कन्धाः । लोहो लोहमयो य उद्धनः यस्मिन् स्थापयित्वाकाष्ठादीनि संस्क्रियन्ते तद्वद् वनः स्कन्धो येषामिति । उद्धनोऽत्याधानम् |३|३|८० | १ इति निपातनम् ॥ ६२ ।। सा स्तम्बन्न पदन्यासान्वि विधनेन्दुसमद्युतिः । परिघोरुभुजानाह हसन्ती स्वागतं कपीन् ॥ ६३ ॥ १ 'प्रघाणप्रघणालिन्दा बहिरिप्रकोष्टके | इत्यमरः | २ लालताः सुन्दरा अप- घना अङ्गानि यस्यास्ताम्।‘'अङ्गं प्रतीकोऽवययोऽपघनः ।' इत्यमरः । ३ 'निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः । इत्यमरः । लौहेतिविशेषाभिधानेन तस्य काष्ठप्रस्तुतत्वं. निरस्तम् ।