पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] अधिकारकाण्डम् । (१९३) अथेत्यादि -- अय परिभ्रमणादनन्तरं कुमेन परिश्रमेण अमदाः गतप्रमोदाः 'मदोऽनुपसर्गे | ३|३|६७|' इत्यप् | निःकाणाः निश्शब्दाः मूकीभूता इति भावः । 'कणो वीणायां च | ३|३|६५|' इत्यपो विकल्पेन घञ् । वीणादिविष- यमेतत् । क्वणेर्निपूर्वादनुपसर्गाद्वीणादिविषयाच्च विकल्पेनाप् प्रत्ययः इत्युक्तम् । एकस्मिन् गिनितम्बे सेदुः निषण्णाः । निखिला: समस्ता वानराः । क्षीण - पणा इव अर्थरहिता नरा इव । पण्यन्त इति पणा: । व्यवहासय कृते पणे व्यवस्थाप्यन्ते । 'नित्यं पणः परिमाणे |३|३|६६ | इत्यप् || ५८ ॥ ततः ससम्मदास्तत्र निरैक्षन्त पतत्रिणः । गुहाद्वारेण निर्यातः समजेन पशुनिव ॥ ५९ ॥ तत इत्यादि--ततो विश्रामानन्तरं ते तत्र तस्मिन् पर्वते पतत्रिणः पक्षिणो निरैक्षन्त ईक्षितवन्तः । ईक्षेर्लङि रूपम् । कीदृशान् गुहाद्वारेण निर्यातः निर्ग- च्छतः। निष्पूर्वाद्यातेः शत्रन्तस्य शसि रूपम् । ससम्मदाः सहर्षाः । 'प्रमदसंमदौ हर्षे । ३ । ३ । ६८ ।’ इति निपातितम् । समजेने वृन्देन पशुनिव निर्यातः | 'समुदोरजः पशुषु । ३ । ३ । ६९ । इत्यप् ॥ ५९ ।। वीनामुपसरं दृष्ट्वा तेऽन्योन्योपहवा गुहाम् | 6 प्राविशन्नाहवप्रज्ञा आहावमुपलिप्सवः ॥ ६० ॥ वीनामित्यादि — वीनां पक्षिणामुपेसरं नैरन्तर्येण निर्गमनं दृष्ट्वा । उप- सर इव उपसरः नैरन्तर्यमात्रेणोपलक्षितत्वात् । उपसरो हि स्त्रीगवीषु पुङ्गवानामभिगमनमुच्यते । स च नैरन्तर्येण भवति । 'प्रजने सर्तेः । ३ । ३ । ७१ ।' इत्यप् । ते वानरा अन्योन्योपहवाः परस्परमाह्वानं येषाम् आ- गच्छतागच्छत प्रविशाम इति । 'ह्वः सम्प्रसारणम् । ६ । १ । ३२ । इत्यपू संप्रसारणं च । गुहां प्राविशन् प्रविष्टवन्तः । युद्धप्रज्ञाः । आहूयते युद्धाय स्पर्धतेऽत्र । 'आङि युद्धे । ३।३ । ७३।१ इत्यप् संप्रसारणं च । आहावमुपलिप्सवः उदकाधारमुपलब्धुमिच्छवः । 'निपानमाहावः । ३ । ३ । ७४ ।' इति घनि सम्प्रसारणं निपात्यते । वृद्धि रस्त्येव । अप्प्रत्यये त्ववृद्धिः ।। ६० ।। आहवप्रज्ञा: १ गतहर्षा इति पाठान्तरं तु न प्रकृते युक्तम् । २ 'निक्कणो निक्काण: काण: इत्यमरः। ३अत्र जात्यभिप्रायेणेकवचनं, तेन नितम्बेष्वित्यर्थः। 'कटकोऽस्त्री नितम्बोऽद्वे: इत्यमरः |४' पशूनां समजोऽन्येषां समाजः' इत्यमरः । ५ 'प्रजनः स्यादुपसरः।' इत्यमरः । ६ सङ्ग्रामाभिलाषिणः । ‘अभ्यामर्दुसमाघातसङ्ग्रामाभ्यागमाहवाः ।" इत्यमरः । ७ जलपानस्थलम् । 'आहावस्तु निपानं स्यादुपकूपजलाशये | इत्यमरः । १३