पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९२ ) भट्टिकाव्ये जयमङ्गलासमेते- भ्रेमुः शिलोच्चयांस्तुङ्गानुत्तेरुरतरान्नदान् | आशंसवो लवं शत्रोः सीतायाश्च विनिश्चयम् ॥ ५५ ॥ भ्रेमुरित्यादि--उत्पूर्वांच्चिनोतेः 'एरच् | ३ | ३ | ५६ |' इत्यच् । शिला- भिरुच्चयो येषां तान् शिलोच्चयान् । भ्रेमुः भ्रमणक्रियाया व्याप्यत्वात् सकर्मकता । नदान् अतरान् तरितुमशक्यान् उत्तेरुः उत्तीर्णवन्तः । शत्रो- लेवमुच्छेदनम् । सीतायाश्च विनिश्चयं विनिर्णयम् | आशंसवः आशंसनशीलाः । 'सनाशंसमिक्ष उः | ३|२|१६८|' इत्युः | तरलवौ 'ऋदरप् |३|३|५७|' इति अप्प्रत्ययान्तौ । विनिश्चयमिति ग्रहेत्यप् ॥ ५५ ॥ [ सप्तमः - आदरेण गमं चक्रुर्विषमेष्वप्यसङ्घसाः । व्याप्नुवन्तो दिशोऽन्यादान्कुर्वन्तः सव्यधान्हरीन् ॥ ५६ ॥ आदरेणेत्यादि----विषमेष्वपि प्रदेशेषु गर्म गमनं चक्रुः | आदरेणानवज्ञया गमम् 'ग्रहवृहनिश्चिगमञ्च |३|३|५८|' इत्यप् | असंघसाः त्यक्ताहाराः । ‘उपसर्गेऽदः । ३।३।५९।' इत्यपि 'घनपोच | २|४|३८|' इति अर्घस्लादेशः । हरीन् सिंहान् । सव्यधान् सप्रहारान् । 'व्यधजपोरनुपसर्गे ।३।३ । ६१ ।” इत्यप् । सप्रहारत्वादन्यादान् परित्यक्ताहारान् कुर्वन्तः | 'नौ ण च | ३|३|६०।१ इति निपूर्वाददोऽण् प्रत्ययः । तस्मिन्नदेर्न यस्लादेशः । चकारादपि तत्र निघसः । दिशो व्याप्नुवन्तः सर्वव्यापिनः ॥ ५६ ॥ सञ्चेरुः सहसाः केचिदस्वनाः केचिदाटिषुः | संग्रामवन्तो यतिदन्निगदानपरेऽमुचन् ॥ ५७ ॥ - सञ्चेरुरित्यादि - - सहसाः सहासाः । अस्वस्तूष्णीका: । 'स्वनहसोर्वा ।३।३।६२।' इत्यप् । यतिवत् संयामवन्तः नियमवन्तः 'यमः समुपनिविषु च |३|३||६३|' इति घन् । आटिषुः अटितवन्तः । अटेर्लुङ रूपम् । अपरे निगदान् कलकलरवानमुचन् । 'नौ गद् नदपठस्वनः | ३| ३ | ६४।' इति विकल्पेनापो विधानात् धन् ॥ ५७ ॥ अथ क्लमादनिःक्काणा नराः क्षीणपणा इव | अमदाः सेदुरेकस्मिन्नितम्बे निखिला गिरेः ॥ ५८ ॥ १ पर्वतानिति यावत् |२ अपीति शेषः | ३ इदं स्वेषां ग्रहग्रस्तत्वं योतयितुम् । ४ इदम्मूकस्वं द्योतयितुम् । ५ 'यमः सन्यामसंयमौ' इत्यमरः |६ इदं विद्वत्त्वं सम्भाव- यितुम् । 'निगादो निगदे' इत्यमरः ।