पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | उदक्छतवाल कोटचा सुषेणं पश्चिमां तथा । दिशं प्रास्थापयद्वाजा वानराणां कृतत्वरः ॥ ५१ ॥ ( १९१ ) उदगित्यादि-वानराणां राजा सुग्रीवः शतवलिं नाम वानरं वानराणां कोटथा सह उदगुदीचीं दिशं प्रास्थापयत् । तिष्ठतेर्ण्यन्तस्य लाङ रूपम् । उद्दीचीशब्दात् प्रथमान्ताद्दिशि वर्तमानादस्तातिः । तस्याञ्चतेर्लुक् । 'लुक् तद्धितलुकि |१|२|४९|' इति स्त्रीप्रत्ययस्य लुक् । तस्मिन्निवृत्ते भसंज्ञा- भावादीत्वमपि निवर्तते । तसिलादिस्तद्धित एधाच् पर्यन्त इत्यव्ययत्वे द्विती- यालुक् । तथैव सुषेणं वानरं पश्चिमां दिशं प्रास्थापयत् । कृतत्वेरः त्वरितः ॥ ५१ ॥ प्राचीं तावद्भिरव्ययः कपिभिविनतो ययौ । अप्रग्राहैरिवाऽऽदित्यो वाजिभिदूरपातिभिः ॥ ५२ ।। प्राचीमित्यादि – कपिभिस्तावद्भिरित्येक कोटिसंघातैः सह विनतः प्रणतः सुग्रीव इत्यर्थात् । अव्यग्र : अनाकुल: । प्राची पूर्वी दिशं ययौं । यथ आदित्यो वाजिभिरमग्रा है :: मुक्तबन्धनैः करणभूतैः । 'रश्मौ च |३|३|५३ इति घञ् दूरयायिभिः ॥ ५२ ॥ ययुर्वन्ध्यं शरन्मेघैः प्रावारैः प्रवरैरिख । प्रच्छन्नं मारुतिप्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥ ५३ ॥ ययुंरित्यादि–मारुतिप्रष्ठाः हनूमदमेसराः सीतां द्रष्टुं विन्ध्यपर्वतं ययुः । शरन्मेघैः प्रावारैरिव प्रच्छन्नम् 'वृणोतेराच्छादने । ३ । ३ । ५४ ।' इति घन् । प्रवरैः श्रेष्ठैः । अनाच्छादने ग्रहेत्यादिना अप् ॥ ५३ ॥ परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु । विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे ॥ ५४ ॥ परीत्यादि - मृगेन्द्राणां सिंहानां परिभावमसिंभवं कुर्वन्तः । विन्ध्ये चेरुः भ्रान्ताः । 'परौ भुवोऽवज्ञाने | ३ | ३ | ५५ |' इति घन् । कीदृशे तिग्मांशु - मार्गत्य परिभवोपये । आदित्यमार्गस्य परिभवनम् । अत्युच्चत्वात् । घन- भावपक्षे अप् ॥ ५४ ॥ १ कृतात्वरो येन सः । २ अनोपमा । ३ 'परीभावम्' इति पाठान्तरम् | ४ विन्ध्ये एतदाख्ये पर्वते ।