पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९० ) भट्टिकाव्ये जयमङ्गलासमेते- उच्छ्रायवान्घनाऽऽरावो वानरं जलदाऽऽरवम् । दूराऽऽप्लावं हनूमन्तं रामः प्रोचे गजाऽऽप्लवः ॥ ४७ ॥ उच्छ्रायवानित्यादि-रामो हनूमन्तं प्रोचे । कीदृशः । उच्छ्रायवों- नुन्नतियुक्तः । पूर्ववद् घञ् । घनस्येवारावो यस्य । 'विभाषाऽऽङि रुप्लु- वोः ।३।३।५०।' इति भावे घञ | गजाप्लवः गजगमनः । पक्षे पूर्ववदप् | कीह- शम् । दूराप्लावं दूरमाप्लाव उद्गमनं यस्य | पूर्ववत् घञ् ॥ ४७ ॥ अवग्राहे यथावृष्टिं प्रार्थयन्ते कृषीवलाः । प्रार्थयध्वं तथा सीतां यात सुग्रीवशासनात् ॥ ४८ ।। [ सप्तमः - अवग्राह इत्यादि - अवग्राहो वर्षप्रतिबन्धः 'अवे ग्रहो वर्षप्रतिबन्धे |३|३||५||१|| इति पक्षे अपू । यथा अवग्रोहे कृषीवला वृष्टिं प्रार्थयन्ते तथा सीतां यूयं प्रार्थयध्वम् । तस्या दुर्लभत्वादत्यन्तादरणीयत्वाच्च । यात सुग्रीवशासनात् ॥४८ ॥ वणिक्मग्राहवान्यद्वत्काले चरति सिद्धये । देशापेक्षास्तथा यूयं याताऽऽदायाङ्गुलीयकम् ॥ ४९ ॥ वणि गित्यादि- तुला प्रगृह्यते येन सूत्रेण स प्रयाहः । 'प्रे वणिजाम् । ३ । |३|५२|' इति करणे वञ् । स तुलासंबन्धी विद्यते यस्य वणिजः । संसर्गे मतुप् | यथा तुलाप्रमाहवान् तदुपलक्षितो वणिक काले उचिते ऋयसिद्धये चरति तथा यूर्य अङ्गुलीयकं तुलासूत्रस्थानीय चिह्नमादाय देशापेक्षा : तत्तद्देशस्थितास्तत्र हि चिह्नेन रामदूता इति लक्ष्यन्ते ॥ ४९ ॥ अभिज्ञानं गृहीत्वा ते समुत्पेतुर्नभस्तलम् । वाजिनः स्यन्दने भानोर्विमुक्तप्रग्रहा इव ॥ ५० ॥ अभिज्ञानमित्यादि- ते वानरा नभस्तलमुत्पेतुः । वाजिन इव विमुक्त- प्रग्रहाः । विमुक्तः प्रग्रहो नियमरज्जुयँपामिति । 'रश्मौ च | ३|३||१३|| इति विभाषाग्रहणमनुवर्तते । घञभावपक्षे 'प्रहदुनिश्चिम | ३|३|५८ ।। इत्यप् । स्यन्दने रथे भानोरादित्यस्य । किं कृत्वा | अभिज्ञानं गृहीत्वा चिह्नमङ्गुलीयकमादाय |॥ ५० ॥ १ 'नगाधारोह उच्छ्राय उत्सेधचोच्छ्रयश्च सः |' इत्यमरः | २ 'तद्विघातेऽवग्राहा- वत्रहौ समौ' इत्यमरः । ३ 'तुला सूत्रेऽश्वादिरश्मौ ग्राहः प्रग्नहोऽपि च |' इत्यमरः ।