पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( १८९) प्रग्रारित्यादि -- पात्राणां भिक्षाभाजनानां प्रप्राहैरिव न तु समृद्धैरिवे- त्यभिप्रायः । कृतैरन्वेष्या मैथिली । भिक्षुकवेषैरिव युष्माभिरित्यर्थः । ग्रहेः 'प्रेलिप्सायाम् |३|३|४६ | इति भावे घञ् । कर्मणि षष्ठी । इङ्गितैधम्र्यैः धर्मादनपेतैः । चेष्टितैः कुलाङ्गनोचितैः धर्मादनपेतानीति धर्म्याणि तैः । ‘धर्म्मपथ्यर्थन्यायादनपेते |४|४|१९२१' इति यत् । ज्ञातव्या सा ध्यायन्ती रामागमम् । कुलाङ्गना हि प्रोषितभर्तृका सर्वदा भर्तुरागमनं ध्यायति ॥ ४४ ॥ वेदिवत्सपरिग्राहा यज्ञियैः संस्कृता द्विजैः । दृश्या मासमतादह्नः प्रागनिन्दितवेशभृत् ॥ ४५ ॥ यज्ञियैर्यज्ञकर्मा हैर्द्विजैः - वेदिवदित्यादि - वेदिवद्भिः सपरिग्राहाः यथा ब्राह्मणैः । वेदिः यज्ञस्थली । सपरिग्राही परिगृहीता संस्कृता तथा सा- ऽपि अतिपवित्रत्वात् । : 'परौ यज्ञे | ३|३|४७ | इति यज्ञविषये बञ् । मासतमादह्नः प्राग्या दर्शना: । मासस्य पूरणं यदहः । 'नित्यं शतादिमासर्चमाससंवत्सराच्च ५।२ ।५७ ।। इति तमडागमः | अस्मादेव निपातनात् मासस्यासंख्यावाचित्वे डट् । मासतमेऽङ्गीति हेतुं दर्शयन्नाह | तस्याः पूतत्वात्तद्वदनिन्दितवेशभृत् मैथिली मङ्गलमात्रा- भरणा दर्शना । तां द्रष्टुं भवतां न चिरकालो भवतीति मासावधिना प्रेषिताः ॥ ४५ ॥ नीवारफलमूलाशानृषीनप्यतिशेरते । यस्था गुणा निरुद्रावास्तां द्रुतं यात पश्यत ॥ ४६ || नीबारेत्यादि-- यस्या गुणा ब्रह्मचर्यादयः ऋषीनप्यतिशेरते न्यक्कुर्वते तां द्रुतं यात पश्यत । तत्र नीवारः अकृष्टपच्यधान्यम् । 'नौ वृ धान्ये । ३ 1३।४८|' इति घन् । 'उपसर्गस्य वञ्यमनुष्ये बहुलम् ||६|३|१२२|| इति दुर्घत्वम् । फलं मोचादि । मूलं शालूकादि । एतान्यश्नन्ति ये ऋषयः । कीदृशा गुणाः । निरुद्रावाः स्थिराः । 'उदि श्रंयतियौतिद्रुवः । ३।३ । ४९।' इति घञ् ॥ ४६ ॥ १ 'वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे ।' इत्यमरः | २ समानः परिग्राहः परिग्रहो येषां ते सपरिग्राहाः। परिग्राहो वेषादिः | ३ 'तृणधान्यानि नोवाराः' इत्यमरः । अत्र बहुवचनम विवक्षितम् 'अमरा निर्जरा देवाः' इत्यादिवत् ।