पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८८) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः मुपशाये: पर्यायशयनं कर्तव्यम् । 'व्युपयो: शेतेः पर्याये | ३ | ३|३९ । इति घंञ । फलोच्चायश्च संहतैः युष्माभिः कर्तव्यः 'हस्तादाने चेरस्तेये ।३।३ । ४० ।' इति घन् । हस्तादानं चादेयस्य प्रत्यासत्तिः ॥ ४१ ॥ सीतारक्षोनिकायेषु स्तोककायैश्छलेन च । मृग्या शत्रुनिकायानां व्यावहासीमनाश्रितैः ॥ ४२ ॥ सोतेत्यादि — छलेन युष्माभि: सीता मृग्या । रक्षोनिकायेषु राक्षस- प्रायेषु निवासेषु इत्यथ: । विवसन्त्यस्मिन्निति अधिकरणे 'निवासचिति- शरीरोपसमाधानेष्वादेश्च कः । ३ । ३ । ४१ ।" इति घञ, आदेश्व ककारः । स्तोककायैर्युष्माभिः । चिन्वन्त्यस्माच्छुभमिति काय: । शरीरे घञ् । शत्रुनिकायानां अरिसमूहानाम् | निचीयत इति निकाय: | 'संघे चानौत्तराधर्ये । ३ । ३ । ४२ ।। इति कर्माणि घञ, आदेख ककारः । तेषां संबन्धिनीं व्यावहासीं परस्परहसनम् । अनाश्रितैः । व्यवपूर्वाद्धसः कर्म- व्यतिहारे : णचः स्त्रियामञ् ।५।४ । १४ ।' इति स्त्रीलिङ्गे भावे णचं विधाय णचः स्त्रियामञ् । 'न कर्मव्यतिहारे । ७ । ३।२६ ।। इति वृद्धिप्रति- षेधः ॥ ४२ ॥ सांराविणं न कर्त्तव्यं यावन्नाऽऽयाति दर्शनम् । संदृष्टायां तु वैदेह्यां निग्राहो वोऽर्थवानरेः ॥ ४३ ॥ सांराविणमित्यादि---सांराविणमभिव्याप्त्या भाषणं न कर्तव्यं युष्माभिः यवान्नायाति दर्शनं सीतेत्यर्थात् संपूर्वाद्रौतेः 'अभिविधौ भाव इनुण् | ३ | ३।४४ ।' तदन्तात् 'अणिनुणः ||५|४|१५|' इत्यण । तस्मिन् 'इनण्यनपत्ये |६|४| १६४ ।' इति प्रकृतिभावः । यस्मात्संदृष्टायां चैतस्यां वैदेह्यां अरेनिग्राहः आक्रोशोऽभिभवलक्षणः वो युष्माकमर्थवान् । 'आक्रोशेऽवन्योर्ब्रहः | ३ | ३ | ४५ ।' इति भावे घन् ॥ ४३ ॥ प्रग्राहैरिव पात्राणामन्वेष्या मैथिली कृतैः । ज्ञातव्या चेङ्गितैयन्ती राघवाऽऽगमम् ॥ ४४ ॥ १' उपशायो विशायश्च पर्यायशयनार्थकौ ।' इत्यमरः । '२रक्षसां निकायाः समूहाः तेषु 'अथ सधर्मिणाम् । स्यान्निकायः' इत्यमरः । ३ अदीर्घशरीरैरिति भावः। स्तोका अल्पा क्षुद्रा इति यावत् कायाः शरीराणि येषां तैः 'स्तोकाल्पक्षुल्लकाः सूक्ष्मम्' इत्यमरः।