पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] अधिकारकाण्डम् । ( १८७) कतरि च । ३ । ४ । ७१ ।” इति कर्तरि क्तः । कृत्प्रयोगे कर्मणि षष्ठी 'न लोकाव्यय निष्टाखलर्थतृनाम् । २ । ३ । ६९ ।। इति निषिद्धाऽतः शेषे षष्ठी । उत्कारेषु च राशिषु धान्यानाम् । 'कृ विक्षेपे' इत्यस्मादुत्पूर्वात् 'कृ धान्ये ।३।३।३०।। इति कर्मणि घञ् | अनभष्टपरिग्रहाः अनभिला- घुका इत्यर्थः ॥ ३८ ॥ संस्तावमिव शृण्वन्तश्छन्दागानां महाध्वरे | शिक्षितं मधुलेहानां पुष्पप्रस्तारशायिनाम् ॥ ३९ ॥ संस्तावमित्यादि -- मधुलेहानां भ्रमराणां पुष्पप्रस्तारशायिनाम् । 'प्रेखो ऽयज्ञे । ३।३।३२।' इति घञ् । शिञ्जितं शृण्वन्तः यूयं यात । छन्दो- गानां महाध्वरे संस्तावमिव सम्भूय स्तवनमिव पाठध्वनिविशेषमिव वा 'यज्ञे समि स्तुवः | ३ | ३ | ३१ ।' इति घञ् ॥ ३९ ॥ आलोचयन्तो विस्तारमम्भसां दक्षिणोदधेः । स्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम् ॥ ४० ॥ आलोचयन्त इत्यादि -- दक्षिणोदधेर्दक्षिणदिगुपलक्षकस्य समुद्रस्येत्यर्थः । अम्भसां विस्तारं विस्तीर्णताम् । विपूर्वात् स्तृणाते: 'प्रथने वावशब्दे | ॥३॥ ३ । ३३ ।। इति घञ् । आलोचयन्तो निरूपयन्तः । इयानस्य विस्तार इति । फलरसमास्वादयन्तः । मुष्टिसंग्राहपीडितम् । मुष्टे: संग्राहेण इस्तेन पीडितम् । ग्रहे: 'समि मुष्टौ | ३ |३|३६ |” इति घन् । भावे मुष्टिविषये व्युत्पादितत्वात् । मुष्टिग्रहणमभिव्यक्तयर्थे ज्ञातव्यम् ।। ४० ।। न्याय्यं यदत्र तत्कार्यं पर्यायेणाऽविरोधिभिः । निशोपशायः कर्त्तव्यः फलोच्चायश्च संहतैः ॥ ४१ ॥ न्याय्यमित्यादि —— यदत्र न्यायादनपेतं तत्कार्यमविरोधिभिर्युष्माभिः । 'परिन्योर्नीणोद्यूताभ्रेषयोः । ३ । ३ । ३७ ।" इति घन् । पदार्थानाम- नपचारणेत्यर्थः । 'व्युपयो: शेते: पर्याये | ३ । ३ । ३९ ।' इति धञ् । मपर्यायेण परिपाट्या । 'परावनुपात्यय इणः | ३ | ३|३८ ।' इति भावे घन् । अनुपात्ययः पर्याय: । निशोपशायः कर्तव्यः । युष्माभिर्निशाया- १ 'उत्कारच निकारश्च द्वौ धान्योत्क्षेपणार्थको' इत्यमरः २ यद्यपि 'भूषणानां तु शिञ्जितम् ।' इत्यमरायुक्त्या भूषणानामेव शब्दस्य वाचकः शिञ्जितशब्दः । तथाऽपि भ्रमराणां तदुपमत्वं सम्भाव्य समर्थनीयम् |