पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८६) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - अङ्गदसहितम् । तथा जाम्बवम् ऋक्षाधिपतिं नीलसहितमब्रवीत्। जाम्बवशब्दो ऽकारान्तो द्रष्टव्यः चारुसन्द्रावं चारुगतिम् 'साम युद्रुदुवः | ३ | ३ | २३ ।' इति घञ् ॥ ३५ ॥ अथ पञ्चभिः कुलकम् । यात यूयं यमश्रायं दिशं नायेन दक्षिणाम् । विक्षावैस्तोयविश्रावं तर्जयन्तो महोदधेः ॥ ३६ ॥ यातेत्यादि — यूयं यात गच्छत । यमश्रीयं यमस्थानम् । श्रयत्येनमिति 'त्रिणीभुवोऽनुपसर्गे । ३ | ३ | २४ । इति घञ् कर्मणि । काम् दक्षिणां दिशम् । सामान्याभिधानाद्विशेषाभिधानम् । नायेन नीत्या सामादिना । नीय- तेऽनेनेति पूर्ववत्करणे घञ् । महोदधेस्तोयविश्रावं तोयध्वनि तर्जयन्तो न्यक्कुर्वा - गाः । कैः विर्क्षीवैः स्त्रैः शब्दैः । उभयत्रापि 'वौ क्षुश्रुवः | ३|३||२५|' इति कर्मणि घञ् ॥ ३६ ॥ उन्नायान धिगच्छन्तः प्रद्रावधाभृताम् । वनाऽभिलावान्कुर्वन्तः स्वेच्छया चारुविक्रमाः ॥ ३७ ॥ उन्नायानित्यादि — वसुधाभृतां पर्वतानाम् | वसुधां बिभ्रति-धारयन्तीति तेषाम् । उन्नायाँनुच्चयानुच्चत्वान्यधिगच्छन्तः जानन्तः । 'अवोदोर्नियः |३|३|२६|| इति भावे घञ् । कैः प्रद्रावैः प्रकृष्टगतिभिः । ‘प्रे द्रुस्नुस्रुवः ।३। ३|२७|' इति घञ्। वनाभिलावान् वनविध्वंसान् । निरभ्योः पूल्वोः | ३|३| २८|' इति भावे घन् । स्वेच्छया कुर्वन्तः । चारुविक्रमाः असाधारण- पराक्रमाः । यात यूयमिति संबन्धः ॥ ३७ ॥ सदोद्गारसुगन्धीनां फलानामलमाशिताः | उत्कारेषु च धान्यानामनभीष्टपरिग्रहः ॥ ३८ ॥ - सदेत्यादि — सदा सर्वदा उद्वारे भक्षणानन्तरं श्वसनपूर्वके शब्दोच्चारणे यानि सुगन्धीनि तेषामलं पर्याप्तमाशिताः । 'गृ शब्दे' इत्यस्मादुत्पूर्वात् 'उन्न्योः | ३ | ३ | २९|' इति घन् । आङ्पूर्वादश्नोतेः 'आदिकमीण क्तः १ जाम्बव इति जाम्बवत एव सज्ञान्तरम् | २ सुन्दरगमनकारिणमित्यर्थः । 'सुन्दरं रुचिरं चारु' इति 'प्रगावोगावसन्द्रावसन्दावा विद्ववो द्रवः ।' इति चामरः ३ 'श्रायः श्रयणे' इत्यमरः । ४ 'निकारोद्द्वारविक्षावोद्वाहास्तु गरणादिषु ।' इत्यमरः ९५ 'उन्नाय उन्नये' इत्यमरः । ६ 'प्रगावागावसन्द्रावसन्दावाः' इत्यमरः ७ 'लवोऽभिलावा लवने' इत्यमरः ।