पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः:] अधिकारकाण्डम् । (१८५) इति घन् न तु 'पद्रुजविषस्पृशो घन | ३ | ३ | १६ ।। इति । तत्र हि 'स्पृश उपताप इति वक्तव्यम्' इत्युक्तं स्पृशतीति स्पर्श उपतापेः ॥ ३२ ॥ कार्य सारनिभं दृष्ट्वा वानराणां समागमम् । अवैन्नाशं दशाऽऽस्यस्य निर्वृत्तमिव राघवः ॥ ३३ ॥ इति निरधिकारकृत् । कार्यमित्यादि — राघवो वानराणां समागमं दृष्ट्वा कार्य सारनिभं सीताला- मतुल्यम् । सरति कालान्तरे तिष्ठतीति कर्तार कारके 'सृ । स्थिरे । ३।३ १७ ।' इति घन | दशास्यस्य रावणस्य नाशं विनाशं निर्वृत्तमिव निष्पन्नमिव अवैत् ज्ञातवाम् । अवपूर्वादिणो लङि रूपम् ॥ ३३ ॥ इति निरधिकाराः कृतः ॥ अतः परं भावेऽकर्तरि च कारक इत्यधिकृत्य कृदुच्यते- ततः कपिसमाहारमेकनिश्चायमागतम् । उपाध्याय इवाऽऽयामं सुग्रीवोऽध्यापिपद्दिशाम् ॥ ३४ ॥ — तत इत्यादि- ततः कपिसमागमनानन्तरं सुप्रीवः कपिसमाहारं कपिसमूह दिशामायाममध्यापिपत् बोधितवान् | अमुका अमुका दिक् ईदृशीति । 'गतिबुद्धेि- प्रत्यवसानार्थशब्दकर्म्माकर्मकाणमणि कर्त्ता स णौ | १|४||५२ || इति समाहारस्य कर्मसंज्ञा । आयामपरिज्ञानं चास्य वालिभयाद्दूरपरिभ्रमणात् । एकनिश्चायमा- गतम् एकराशितां प्राप्तम् आयाममित्यर्थः । निश्चायमिति 'परिमाणाख्यायां सर्वेभ्यः ।३।६।२०।' इति घञ् । पञ्चादेकशब्देन 'पूर्वकालै कसर्वजरत्पुराणनव- केवला: समानाधिकरणेन |२|१|४९|| इति समासः । क इव । उपाध्याये इवेति । उपेत्याधीयते अस्मादिति 'इङ | ३|३|२१|' इति घञ् ॥ ३४ ॥ सजलाऽम्भोदरावं हनुमन्तं सहाऽङ्गदम् । जाम्बवं नीलसहितं चारुसन्द्रावमब्रवीत् ॥ ३५ ॥ सजलेत्यादि- सुग्रीवो हनुमन्तमन्त्रवीत् । सजलाम्भोदसंरावं सजलमेघ- स्थेव संरावो यस्य हनुमतः । 'उपसर्गे रुवः ||३|३||२२|' इति घञ् । सहाङ्गैदं - १ 'उपाध्यायोऽध्यापकः' इत्यमरः । २ अम्भोदो मेघः। संरावः शब्दः । 'आरवारावसं- रावविरावा |' इत्यमरः । सजलमेघशब्दो हि धीरो महांश्च भवति । ३ अत्र 'सहस्य सः सञ्ज्ञायाम् ६।३।७८’ इस्यतो न सहस्य सादेशः, सञ्ज्ञायामेव तत्प्रवृत्तेः ।