( १८४ ) ततः कपीनां सङ्घाता हर्षाद्राघवभूतये । पूरयन्तः समाजग्मुर्भयदाया दिशो दश ॥ ३० ॥ भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः- तत इत्यादि–तत आदेशादनन्तरं कपीनां संघातां: समाजग्मुः । हर्षात् हर्षेण । आदेशदानमेव हर्षहेतुः। राघवभूतये रामचन्द्रस्य कार्यसम्पत्त्यर्थमित्यर्थः। कापि नाम राघवस्य संपत्स्यादिति समाजग्मुरित्यस्यां क्रियायां क्रियार्थायामु पपदे 'भाववचनाच्च । ३ । ३ । ११ ।' इति भविष्यति क्तिन् । चतुर्थी च पूर्ववेत् । पूरयन्तो व्याप्नुवन्तः । दश दिशः । भदायाः भयं दास्याम इत्यस्यां क्रियायामुपपदे ‘अण कर्मणि च | ३ | ३ | १२ ।' इत्यण् । ‘आतो युक् चिण्कृतोः । ७।३ । ३३ ।। इति युक् ॥ ३० ॥ सुग्रीवाऽन्तिकमासेदुः सादयिष्याम इत्यरिम् । करिष्यन्त इवाकस्मार्ूवन निर्दशाननम् ॥ ३१ ॥ - सुग्रीवेत्यादि — अरिं शत्रुं सादयिष्यामो व्यापादयिष्याम इति सुग्रीवा - न्तिकमासदुः आगताः । 'लट् शेषे च ३ । ३ । १३ ।' इति चकारात् क्रियार्थायामुपपदे भविष्यति लट् । आसेदुरिति क्रिया क्रियार्थी। अकस्मादतर्कितं भुवनं भुवनत्रयं निर्दशाननं रावणरहितं करिष्यन्त इव तथाविधमहासंरम्भ- दर्शनादुत्प्रेक्ष्यते 'लट् शेषे च | ३ | ३ | १३ |' इति लट् । अत्र क्रियायाः क्रियार्थाया अन्यः शुद्धो भविष्यत्कालः शेषः ॥ ३१ ॥ कर्ताऽस्मि कार्यमाया तैरेभिरित्यवगम्य सः । काकुत्स्थपादपच्छायां शीतस्पर्शामुपागमत् ॥ ३२ ॥ कर्तास्मीत्यादि—एभिरायांतर्वानरैः कार्य सीतान्वेषणादि कर्तास्मि करि- प्यामीति अवगम्य । अनद्यतने भविष्यति लुट् । सुग्रीवः काकुत्स्थपादपच्छाया- मुपागमत् । पद्यन्त इति पादाः । 'पदरुजविशस्पृशो घ । ३।३ । । १६ ।' इति कर्तरि घञ् । तत्र भविष्यतीति निवृत्तम् । पादै: पिवतीति पादपो वृक्षः । 'आतोऽनुपसर्गे कः । ३ । २ ।३ । काकुत्स्यें: पादप इव समाश्रयणीयत्वात् । तस्य छायां शीतस्पर्शाम् अनुद्वेजनकरीम् | स्पृश्यत इति स्पर्शस्तन्मात्र उच्यते । 'अकर्त्तीरे च कारके सञ्ज्ञायाम् | ३ | ३ | १९॥ १ 'स्तोमौघनिकरवातवारसङ्घातसञ्चयाः ।' इत्यमरः । २ जात्यभि- प्रायेणैकवचन मिति सम्भाव्योक्तम्भुवनत्रयमिति । ३ आयातैः प्राप्तैरित्यर्थः । ४ 'विटपः पादपस्तरु:' इत्यमरः । ५ ककुत्स्थस्य वंशभवत्वाद्राम इत्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२२२
दिखावट