पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८० ) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - मार्ग ध्रुवमवश्यं गामुकः साधु गन्ता । 'लषपतपदस्थाभूवृषहनकमगमगृभ्य उकंञ् । ३ । २ । १५४ ।' इत्युकञ् । 'न लोकाव्ययनिष्ठाखलर्थतृनाम् । २ । । ६९ ।। इति षष्ठीप्रतिषेधः ॥ १८ ॥ जल्पाकीभिः सहासीनः स्त्रीभिः प्रजविना त्वया । गत्वा लक्ष्मणं वक्तव्यो जयिना निष्ठुरं वचः ॥ १९ ॥ जल्पाकीभिरित्यादि -- हे लक्ष्मण ! त्वया प्रजविना प्रकृष्टगमनशीलेन । ‘प्रजोरिनिः।३।२।१५६।' इतीनिः । जयिना अभिभवनशीलेन । 'जिद्दक्षिविश्रीव- माव्यथाभ्यपरिभूप्रसूभ्यश्च | ३ | २ | १५७ ।' इतीनि: । सुग्रीवो निष्ठुरं वचो वक्तव्योऽभिधातव्यः । जल्पाकीमिः जल्पनशलिाभिः स्त्रीभिः सहासीनँ: । 'जल्पभिक्षकुट्टलुण्ठवृङ: पाकन् । ३ । २ । १५५ ।' इति षाकन् । पित्त्वात् ङीष् | तन्मध्ये हि परुषमभिधीयमानः परिभवं मन्यत इति भावः ॥ १९ ॥ शैले विश्रयिणं क्षिप्रमनादरिणमभ्यमी | न्याय्यं परिभवी ब्रूहि पापमव्यथिनं कपिम् ॥ २० ॥ शैल इत्यादि--कपिं क्षिप्रं गत्वा ब्रूहि इत्यकथितं कर्म । न्याय्यं वच इति प्रधानं कर्म । अस्य चातिस्पष्टार्थत्वादिदं तदिति संदिष्टम् । अनादरिण- मनादरशालं कपिं. कालातिक्रमणात् । आङ्पूर्वी दृङ् । अत एव पापं दुराचारम् । अव्यथिनं निर्भयशीलम् । नञपूर्वो व्यथिः । शैले विश्रयणं तत्र स्थितिशीलम् । विपूर्वः श्रयतिः । त्वं चाभ्यमी अभिमुखगमनशीलः | अभिपूर्वोऽम गत्यादिषु । परिभवी साधु परिभवं जनयन् | परिपूर्वो भवतिः । अत्र सर्वत्र 'जिदृक्षिविश्री - ण्क्माव्यथाभ्यमपरिभूप्रसूभ्यश्च | ३ | २ | १५७ | इतनः ॥ २० ॥ स्पृहयालुं कपि स्त्रीभ्यो निद्रालुमदयालुवत् । श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम् ॥ २१ ॥ स्पृहयालुमित्यादि — स्त्रीभ्यः स्पृहयलं कपि साधु स्पृहयन्तम् । हिः स्वार्थिकण्यन्तोऽदन्तश्च । ‘अयामन्तालवाय्येन्विष्णुषु |६|४|५५ | इत्ययादशः | 'स्पृहेरीप्सितः । १ । ४ । ३६ ।। इति सम्प्रदानसंज्ञा । द्रुतं वद ब्रूहि अद्यालुवत् अदयनशील इव । निद्रालुं निद्राशीलम् अस्मत्कार्येष्त्र- १ यथा मम शराहतो वाली परलोकं प्राप्तस्तथैवाय मपि प्रैष्यतीति वक्तव्यम् । २. 'स्याज्जल्पाकस्तु वाचालः, इत्यमरः | ३ आसीन उपविष्टः । ४ 'स्पृही कामी साभि- लापः स्पृहा सस्पृहः ।' इति गोपालः । ५ 'स्वप्नकू शयालुनिंद्रालुः 'इत्यमरः ।