पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] | ( १८१ ) नवधानत्वात् शयनीय एव सर्वदा स्थितत्वात् स्त्रीभिः सह श्रद्धालुं साध्वभिलषन्तम् । किम् । भ्रामरं भ्रमरैः कृतम् । 'भुद्राभ्र- मरवटरपादपादञ् । ४ । ३ । ११९ ।' इत्यन् । मध्वित्यर्थात् । 'न लोकाव्ययनिष्ठाखलर्थतृनाम् । २ । ३ । ६९ ।। इति षष्ठीप्रतिषेधः । 'स्पृहि- गृहिपंतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । ३ । २ । २५८ ।' इत्यालुच् 1 श्रद्धालुत्वादेव धारुं साधु पिबन्तं भ्रामरमेव | सङ्गु साधु सीदन्त व अद्रौ । 'दाधेसिशदसदो रुः | ३ | २ | १५९ ।' इति रुः ।। २१ ।। अधिकारकाण्डम् सृमरो भङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः । विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान्कपीन् ॥ २२ ॥ - सृमर इत्यादि – लक्ष्मण : कपीन् प्राप । कीदृशः - सृमरः साधु गन्ता । 'सृघस्यदः क्मरच् | ३ | २ | ६० ।। भगुरा ये स्वयमेव भज्यन्ते । 'भज- भासमिघुरचू । ३ | २ | १६१ ।। इति घुरच् | तान् प्रजानातीति भ गुरप्रज्ञः 'प्रे दाज्ञः । ३ | २ | ६ |' इति कः | विदुरैः साधुवेदी । 'विदिभि- दिच्छिदेः कुरच् । ३ | २ | १६२ ।' जिवरः साधु जयशील: । 'इणूनस्- जिसर्तिभ्यः करपू । ३ | २ | १६३|| इति करप् । गृहीत्वा धनुर्भासुरं भासन- शीलम् । गत्वरान् गमनशीलान् कपीन् अस्थिर प्रकृतीनित्यर्थः । 'गत्वरश्च' ३|२|१६४|' इति निपातितम् । गमे: करप्यनुनासिकलोपः ॥ २२ ॥ तं जागरूकः कार्येषु दन्दशूकरिपुं कपिः । अकम्मं मारुतिर्दीमं नम्रः प्रावेशयगुहाम् ॥ २३ ॥ तमित्यादि – तं लक्ष्मणं कपिमारुतिः गुहां प्रावेशयत् । विशेर्हेतुमण्ण्य- न्तात् लङि रूपम् । कार्येषु कृत्येषु जागरूक: सावधान: । 'जागरूंक: । ३ । २ । १६५ ।' इति जागरूकः । दन्दशँकरिपुं हिंस्रारिम् । 'यजजप- दशां यङः ।३।२।१६६।' इति दंशेर्यङन्तादूकः । 'लुपसदचरजपजभदहश- गृभ्यो भावगर्हायाम् । ३ । १ | २४ ।' इति यङ् । दीघ्रं साधु दीप्यमानम् । १ 'श्रद्धालुः श्रद्धया युक्ते इत्यमरः | २ प्राप्तराज्यादित्वात्, निहतशत्रुत्वाच निर्भयं निरुद्वेगं च विराजमानमिति भावः । ३ 'ज्ञाता तु विदुरो विन्दुः' इत्यमरः । ४ 'जेता जिष्णुश्च जित्वरः' इत्यमरः । ५ 'जागरूको जागरिता' इत्यमरः । ६'दन्दशको बिलेशयः ।' इत्यमरोक्त्या दन्दशकाः सर्पाः, लक्षणया तद्वत्परप्राणानां भयावहा गळ एव हिंस्रास्तेषां रिपुमित्यभिप्रायः ।