पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( १७९) . विलोक्येत्यादि---चन्द्रं विलोक्य द्योतनं साधु द्योतमानम् । 'अनुदात्तेतच हुलादेः ।३।२ । १४९ ।' इति युच् शोचनः शोचनशील: । 'जुचङ्कम्यदन्द्रम्य- सृमृधिज्वलशुचलपपतपदः | ३|२|१५० ।' इति युच् । रामो लक्ष्मणमवत् । पश्य हंसान् दन्द्रमणान् शनैर्द्रमणशीलान् । मेर्नित्यं कौटिल्य एव नतु क्रियासमभिहार इत्युक्तम् । तदन्तायुच् । 'अतो लोपः । ६ । ४ । ४८ इत्यतो लोपः ।‘यस्य हलः |६|४|४९|| इति यस्य लोपः । अरविन्दसमुत्सुकान् 'प्रसितोत्सुकाभ्यां तृतीया च | २|३|४४|| इति सप्तमी विधाय 'सप्तमी शौण्डै: २|१|४०।' इत्यत्र ‘सप्तमी' इति योगविभागात् समासः ।। १५ ।। कपिश्चङ्क्रमणोऽद्यापि नासौ भवति गर्धनः । कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम् ॥ १६ ॥ कपिरित्यादि-नासौ कपिः सुग्रीवोऽद्यापि चङ्क्रमणः शनैर्गमनशीलो न भवति । यतो गर्धनोऽभिलापशील: स्त्रीण्वित्यर्थात् । पूर्ववच् | ताराच मो कोपनं कोपनशीलं तद्विषय एव कुर्वन्ति । कीदृश्यः गगनस्य मण्डना भूषणाः । 'क्रुधमण्डार्थेभ्यश्च | ३|२|१५१|| इति च ॥ १६ ॥ नावैत्याप्यायितारं कि कमलानि रविं कपिः । दीपितारं दिनारम्भे निरस्तध्वान्तसञ्चयम् ॥ १७॥ नावैतीत्यादि - किमसौ कपिः रविं नावैति नावगच्छति । कमलान्याप्या- यितारं साधु वर्धयन्तम् । 'अनुदात्तेतच हलादेः | ३ | २ | १२९ । ' इति प्राप्ते । नयः । ३।२।१५२ ।। इति प्रतिषिद्धे तृन्नेव भवति । ततश्च 'न लोकाव्ययनिष्ठा- खलर्थतनाम् । २।३।६९|' इति षष्टीप्रतिषेधः । दिनारम्भे प्रातः काल इत्यर्थः । दीपितारं साधु दीप्यमानम् । पूर्ववधुचि प्राप्ते दीपक्षश्च |३|२|१५३ इति प्रतिषधेः । निरस्तध्वान्तसंचयम् अपनीतान्धकार संहतिकं किमसौ शरत्स- मयं नात्रैतीत्यर्थः ॥ १७ ॥ अतीते वर्ष के काले प्रमत्तः स्थायुको गृहे । गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम् ॥ १८ ॥ अतीत इत्यादि ----वर्पुके वर्पणशीले काले अतीतेऽपि गृहे स्थायुकः स्थिति- शीलः शरदि नागतत्वात् प्रमत्तः सन् सुग्रीवो वालिना गतम् अध्वानं प्राप्त- १ 'गृध्नुस्तु गर्धनः । लुब्धोऽभिलापुकस्तृष्णकू' इत्यमरः | २ इदं क्रियाविशेषणम् ।