पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७८) भट्टिकाव्ये जयमङ्गलासमेते- मलापिनो भविष्यन्ति कदा न्वेतेऽपलाषिणः । प्रमाथिनो वियुक्तानां हिंसकाः पापदर्दुराः ॥ १२ ॥ प्रलापिन इत्यादि ~~ एते पापदर्दुराः पापाश्च ते दर्दुराश्चेत्याक्रोशाभिधानम् । - दर्दुरा मण्डूकाः कदा नु अपलाषिणो भविष्यन्ति । अपलषणशीला: व्यपगत- कामा इत्यर्थ: । 'लप कान्तौ ।' 'अपे च लषः | ३|२|१४|४|| इति घण् । ग्रलापिनः प्रलपनशीला | प्रमाथिनः प्रमथनशीला: । चेतसामित्यर्थात् । 'प्रे लप- सृद्रुमथबदवसः ३ | २ | १४५ ।' इति घिनुण् । अत एव वियुक्तानां मादृशां हिंसकाः हिंसनशीलाः । इत्येवं विललाप | 'निन्दहिंसक्किशखादविनाशपरि- क्षिपपरिरटपरिवादिव्याभाषासूत्रो वुञ् | ३ | २ | १४६ ।। इति वुञ् ॥ १२ ॥ निन्दको रजनिम्मन्यं दिवसं क्लेशको निशाम् । [ सप्तमः- प्रावृष्यनैपीत्काकुत्स्थः कथंचित्परिदेवकः ॥ १३ ॥ निन्दक इत्यादि — काकुत्स्थो दिवसं रजनिम्मन्यं रजनीमात्मानं मन्यमानं धनान्धकारित्वात् । 'आत्ममाने खश्च । ३ | २ | ८३ ।' 'खित्यनव्ययस्य । ६ । ३ । ३६ ।' इति ह्रस्वत्वम् । निशां प्रावृषि कथमप्यनैषीत् नीतवान् । निन्दकः निन्दनशीलः । नक्तंदिनस्येत्यर्थात् । केशक: क्लेशनशीलः । परिदेवकः परिदेवनशीलः । आत्मन इत्यर्थात् ॥ १३ ॥ अथोपशरदेऽपश्यत्क्रौञ्चानां चेष्टनैः कुलैः । उत्कण्ठावर्धनैः शुभ्रं रखणैरम्बरं ततम् ॥ १४ ॥ अथेत्यादि -- अथानन्तरमुपशरदे शरत्समीपे इति 'अव्ययीभावे शर- त्प्रभृतिभ्यः ।५। ४ । १०७ ।' 'इति समासान्तष्टच ।' तृतीयासप्तम्योर्बहुलम् | २ । ४ । ८४ ।' इत्यमभाव: । क्रौञ्चानां कुलैस्ततं व्याप्तमम्बरं शुभ्रं शुक्ल- मपश्यत् दृष्टवान् । चेष्टनैः व्यापारशीलैः | रवेणैः शब्दनशीलैः । अनयोश्चल- -नशब्दार्थत्वात् 'चलनशब्दार्थादक | ३ | २ । १४८ ।’ इति युच् । उत्कण्ठावर्धनैः उत्कण्ठावर्धनशीलैः उत्कण्ठा वर्धयन्तीति तैः, मदनोद्दीपकतया जनकनन्दिन्याः स्मारकैरित्यर्थ: । 'अनुदात्ततच हलादेः | ३|२|१४९ ।। इति युच् । क्रौञ्च इति क्विन्प्रत्यायान्तत्वात् प्रज्ञादित्वादण ।। १४ ।। विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनोऽवदत् । पश्य दन्द्रमणान्हंसानरविन्दसमुत्सुकान् ॥ १५ ॥ १ 'रवणः शब्दनः' इत्यमरः ।