पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (१७७) संसर्गीत्यादि-- संसर्गी संसर्जनशीलः । शीतोऽपि शोकरो बिन्दुः । परि- दाहीवे परिदहनशील इवाभाति । शिखिनैश्च मयूरा: सोढुमशक्या । आक्री- डिनो नर्तनशीला: । परिवादिनः परिवदनशीला इव | इवशब्दश्चात्रार्थो द्रष्टव्यः । पूर्ववत् 'संपृचा-|३|२|१४२|' इत्यादिना घिनुण् ॥ ८ ॥ एता दैवानुरोधिन्यो द्वेषिण्य इव रागिणम् । पीडयन्ति जन धाराः पतन्त्योऽनपकारिणम् ॥ ९ ॥ एता इत्यादि -- एता धारा :: पतन्त्यो द्वेषिण्य इव द्वेषणशीला इव जनं रागिणं रागशीलम् । अनपकारिणमनपराधशीलं पीडयन्ति । दैवानुरोधिन्यः दैवमनुरुन्धन्ति इतितेभ्यः, भाग्यानुरोधात प्रवर्तनशीलेभ्यः । पूर्ववत् धिनुण | घिनुणि च 'रञ्जेरुपसंख्यानम्' इत्यनुनासिकलोपः । कृताननुनासिकनिर्देशाद्वा लोपनिपातनम् ॥ ९ ॥ कुर्याद्योगिनमप्येष स्फूर्जावान्परिमोहिनम् । - त्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः ॥ १० ॥ कुर्यादित्यादि - एष ऋतुरम्भेसां जलानां परिक्षेपी परित्यजनशीलः । कर्मणि सम्बन्धसामान्य विवक्षया षष्टी । योगिनमपि योगशीलमपि । सुखदुःखस्य त्यागिनं त्यागशीलम् । कर्मणि षष्ठी । परिमोहिनं परिमोहन- शीलम् । कुर्यात् । कीदृशः स्फूर्जावान् वज्रनिर्घोषयुक्तः । पूर्ववद् घिनुण् ॥ १० ॥ विकत्थी याचते प्रत्तमविश्रम्भी मुहुर्जलम् । पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम् ॥ ११ ॥ विकत्थीत्यादि--चातको मानसं निकृन्तन्निव खण्डयन्निव । प्रत्तं प्रदत्तम् । 6 अच उपसर्गात्तः।७।४।४७।' जलं याचत इति प्रधानं कर्म । पर्जन्य मित्यकथितम् । विकत्थी विकत्थनशीलं इव पर्जन्योऽपि मह्यं जलं ददाति । इवशब्दो गम्यो - ( लुप्तो )ऽत्र द्रष्टव्यः । अविश्रम्भी अविश्वासशीलः । मान- सखण्डनात्। 'वौ कषलसकत्थस्रम्भः | ३|२|१४३ |' इति धिनुण् ॥ ११ ॥ १अत्रोत्प्रेक्षा, न तूपमा | २ 'शिखावल: शिखी केकी' इत्यमरः । ३ अर्थ: प्रकरणा नुसन्धानबलादर्थावगम्यः । ४'अम्भोऽर्णस्तोयपानीय - ' इव्यमरः । ५ इदं तु 'अवदत्तं विदत्तं च प्रदत्तं चाढिकर्मणि । सुदत्तमनुदत्तं च निदत्त मिति कथ्यते ॥” इत्युक्तदिशाऽऽदिकर्म्मणि विहितकप्रत्ययान्तत्व एवं साधु स्यादिति वितीर्णमिति पर्यायान्तरं वाच्यम् । ६ विकत्थनं बहुगर्जनम् । १२