पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१७६) भट्टिकाव्ये जयमङ्गलासमेते- कि तद्विलपनमित्याह ----- भ्रमी कदम्बसम्पन्नः पवनः शमिनामपि । क्लमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः ॥ ५ ॥ भ्रमीत्यादि----भ्रमी भ्रमणशील: । कदम्बसंभिन्नः कदम्बगन्धसंश्लिष्टः। शमिनामपि शमनशीलानामपि क्लमित्वं कुरुते अत्यर्थं ग्लानिं कुरुते। 'शमित्यष्टाभ्यो घिनुण् |३|२|१४|१|| 'नोदात्तोपदेशस्य मान्तस्यानाचमः |७|३|३४|' इत्युपवावृद्धिप्रीतषेधः । मेघानां शीकरो जलकणारतः शीतलः शीतलत्वं कुर्वाणः । ॥५॥ संज्वारिणेव मनसा ध्वान्तमायासिना मया । द्रोहि खद्योतसम्पर्क नयनाऽमोषि दुःसहम् ॥ ६ ॥ [ सप्तमः - संज्वारिणेत्यादि-----मयैतत् ध्वान्तं तमो दुःसहं दुःखेन सह्यत इति । ‘ईषदुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् |३|३|१२६१ इति खल | मनसा कर- णभूतेन कीदृशेन । संज्वारिणेव रोगशीलनेव । आयासिना आयासशलिन मयेति । द्रोहि अपकारशीलम् । ध्वान्तं खद्योतसम्पर्कि ज्योतिरिङ्गणसंसर्ग- शीलम् । नयनामोपि चक्षुर्मोषणशोलम्। 'संपृचानुरुवाङ्य माङयसपरिसृसंसृज- परिदेविसंज्वरपरिक्षिपपरिरट परिवदपरिदहपरिमुषाद्वषद्रुहृदुयुजाक्रीडविवि- चत्यजरजभयातिचरापचरामुषाभ्यानश्च ।३।२।१९४२|' इति सर्वे घिनुणन्ताः ।६। कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् । अभ्याघातिभिरामिश्राश्चातकैः परिराटिभिः ॥ ७ ॥ - कुर्वन्तीत्यादि -- एता विद्युतः परिदेविनं परिदेवनशीलं कुर्वन्ति । मामि- त्यर्थात् । कीदृश्यः । परिसारिण्यः परिसरणशीला: । चातकैः पक्षिविशेषैः परिराटिभिः परिरटनशीलैः । एवं चाभ्याघातिभिः अभिहननशीलैः । दुःखो- त्पादनात् । आमिश्रा युक्ता विद्युतः । पूर्ववद्धिनुणू ॥ ७ ॥ संसर्गी परिदाहीव शीतोऽप्याभाति शीकरः । सोढुमाक्रीडिनोऽशक्याः शिखिनः परिवादिनः ॥ ८ ॥ १ क्लमोऽस्यास्तीति तस्य भावस्तत्वम् तत् । 'कुमथ: कुमे' इत्यमरः । २ 'शीकरोऽम्बुकणाः स्मृताः ।' इत्यमरः । ३ 'खद्योतो ज्योतिरिङ्गणः।' इत्यमरः । ४ विलापकारिणमित्यर्थः । 'विलापः परिदेवनम् ।' इत्यमरः ।