पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | तर्पणं प्रजनिष्णूनां सस्यानाममलं पयः । रोचिष्णवः सविस्फूर्जा मुमुचुन्निवद्धनाः ॥ २ ॥ तर्पणमित्यादि — घनो अमलं पयो मुमुचुः । भिन्नवत् भिन्ना इव | कीदृशं पयः । तर्पणं सस्यानां तर्पणं बर्पयतीति 'कृत्यल्युटो बहु |३|२|११३' इति कर्तरि ल्युट् । प्रजनिष्णूनां साधु प्रादुर्भवताम् । रोचिष्णवँ: साधु दीप्यमानाः । सविस्फूर्जा: सबज्रनिस्वनाः । 'अलंकृशीनराकृञ्प्रजनो- त्षचोन्मदरुच्यपत्रपत्रृतुवृधुसहचर इष्णुचू | ३ | २ | १३६ | इतीप्णुचू ॥ २ ॥ निराकरिष्णवो भानुं दिवं वर्तिष्णवोऽभितः । अलंकरिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः ॥ ३ ॥ ( १७५) . निरेत्यादि -- भानुं निराकरिष्णवो निराकरणशीला घनाः पयो मुमुचु रिति, योज्यम् । दिवॆमभितो वर्तिष्णव आकाशमभितो वर्तनस्वभावाः । पूर्व- पश्चिमयोर्वर्तनहेतुत्वात् । पर्यभिभ्यां सर्वोभयार्थे तसिः। ‘अभितःपरितः- समयानिकषाहाप्रतियोगेऽपि ' । इति द्वितीया । तडित्वन्तः सविधुतः । अत एव भान्तो दीप्यमानाः । एवं च कृत्वा अलंकरिष्णवोऽलंकरणशीला इव | दिशश्चरिष्णवः इतस्त्वबो गमनशीला: | पूर्ववदिष्णुचू || ३ || तान्विलोक्याऽसहिष्णुः सन् विललापोन्मदिष्णुवत् । वसन्माल्यवति ग्लास्तू रामों जिष्णुरघृष्णुवत् ॥ ४ ॥ तानित्यादि - - तान् घंनान्विलोक्य असहिष्णुरसहनशीलो रामः माल्य- वति एतदाख्ये पर्वते वसन्विललोपे । उन्मदिष्णुवत् उन्मदनशीलः उन्मत्त- स्तद्वत् । पूर्ववदिष्णुच् । ग्लास्नुः ग्लानशीलः । जिष्णुर्जयशीलः । अघृष्णुवद- प्रगल्भ इव । शोकाभिभूतत्वात् । 'ग्लाजिस्थश्च स्नुः | ३ | २|१३९|' 'वृष्णुत ' त्रसिगृधिवृषिक्षिपे: क्नु: ३।२।१९४० |' इति क्नुः ॥ ४ ॥ १ घना मेघाः । 'घनजीमूतमुदिरजलमुग्धूमयोनयः । इत्यमरः । २ फलोन्मुखानां धान्यादीनामित्यर्थः । यद्वा - फलानामिस्येवार्थः । 'वृक्षादीनां फलं सस्यम्' इत्यमरोक्तेः । ३ 'विभ्राइभ्राजिष्णुरोचिष्णू' इत्यमरः । ४ 'निरा- करिष्णुः क्षिप्नुः स्यात्' इत्यमरः । ५ दिवं स्वर्गमित्यर्थः । ६ 'वर्तिष्णुर्वर्तनः समौ ।' इत्यमरः । ७ मेघा इति शेषः । 'तडित्वान् वारिदोऽम्बुभृत्' इत्यमरः । ८ 'चरिष्णु नङ्गमचरम्' इत्यमरः । ९ मेघदर्शनादेर्मदनोद्वेगवर्धकत्वादाह | १० सम- यक्षपणाक्षम इत्यर्थः। 'सहिष्णुः सहनः क्षन्ता' इत्यमरः | ११ 'हा प्रिये जनकनन्दिनि' इत्यादि परिदेवितवान् । १२ 'लोन्मादस्तून्मदिष्णुः स्यात्' इत्यमरः । १३ 'जेता 'जिष्णुश्च जित्वरः ।' इत्यमरः । १४ 'घृष्णुर्घृष्णुग्दधग्धृष्टः' इति त्रिकाण्डशेषः ।