पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७२) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- स्ततो मे मम राज्ञो रामचन्द्रस्येत्यर्थः । नैव दोषः । 'उपेयिवाननाश्वाननूचानश्च १३।२।१०९।' इति उपेयिवाननूचानशब्दौ निपातितौ ॥ १३६ ॥ अन्वनैषीत्ततो वाली त्रपावानिव राघवम् | न्यक्षिपच्चाऽङ्गदं यत्नात्काकुत्स्थे तनयं प्रियम् ॥ १३७ ॥ अन्वित्यादि--ततो रामवचनादनन्तरं वाली राघवमन्वनैषीत् अनुनीत- वान् । ‘देवे क्षम्यतां यदजानता मयोक्तम्' इति । नयतेः ‘लुङ् ।३।२।११०। इत्यनेन भूतसामान्ये लुङ् । त्रपावानिव यथा लज्जावान् कश्चिदनुनयति तद्वत् । अङ्गदं च प्रियं तनयं काकुत्स्थे रामे न्यक्षिपत् न्यस्तवान् | यत्नादा- दरात् । क्षिपेरनद्यतने लङ् ॥ १३७ ॥ म्रियमाणः स सुग्रीवं प्रोचे सद्भावमागतः । सम्भविष्याव एकस्यामभिजानासि मातरि ॥ १३८ । म्रियमाण इत्यादि- ई-- स वाली म्रियमाणः सन् सद्भावं शोभनभावमागतः सन् सुग्रीवं प्रोचे । किमित्याह । अभिजानासि स्मरसि । एकस्यां मातरि सम्भविष्यावः । समभवाव इत्यस्मिन्नर्थे 'अभिज्ञावचने लट् | ३|२|११२ ।' इत्यनद्यतने लट् | अभिजानासीत्यभिज्ञावचनस्योपपदत्वात् || १३८ ।। अवसाव नगेन्द्रेषु यत्पास्यावो मधूनि च । अभिजानीहि तत्सर्वं बन्धूनां समयो ह्ययम् ॥ १३९ ॥ अवसावेत्यादि — अभिजानीहि स्मर | यन्नगेन्द्रेषु अवसाव उषितवन्तौ । अत्राभिज्ञावचनस्य यच्छन्दसहितत्वात् 'न यदि | ३|२|११३ |' इत्यनेन लटि प्रतिषिद्धे लङेव भवति । अत्र वासमात्रं स्मर्यते । मधूनि च यत्पा- स्यावः तत्र पीतवन्तौ । तत्सर्वम भिजानीहि । अत्र 'विभाषा साकाङ्क्षे । ३ । २ । ११४।' इति पक्षे लट् । साकाङ्क्षता च प्रयोक्तुर्लक्ष्यलक्षणयोः सम्बन्धे । तत्रे वासो लक्षणं पानं च लक्ष्यमिति । कस्माद्वन्धूनामयमेष समयः कालः ॥ १३९ ।। दैव न विदधे नूनं युगपत्सुखमावयोः । शश्वद्वभूव तद्दुःस्थं यतो न इतिहाऽकरोत् ॥ १४० ॥

देवीत

राजन्नित्यर्थः ।