पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | प्रत्यूचे वालिनं रामो नाऽकृतं कृतवानहम् । यज्यभिः सुत्वभिः पूर्वैर्जरद्भिश्च कपीश्वर ! ॥ १३४ ॥ प्रत्यूच इत्यादि --रामोऽपि वालिनं प्रत्यूचे प्रत्युक्तवान् । किमित्याह । हे कपीश्वर ! पुर्वैर्जरद्भिर्वृद्धैः । 'जीर्यरतॄन् । ३।२।१०४।' यज्व॑भिः याज्ञिकैः सुत्वभिः सोमयाजिभिः सोमयज्ञं कृत्वा देवांस्तर्पितवद्भिरिति भावः। 'सुयजो- निप् । ३।१।१०३।' । नाकृतं कृतवानहैम् अपि तु कृतमेव कृतवानहम् । 'निष्ठा |२|२|३६|' इति भूते क्तक्तवतू ॥ १३४ ॥ ते हि जालैर्गले पाशैस्तिरश्चामुपसेदुषाम् । ऊषुषां परदारैश्च सार्धं निधनमैषिषुः ॥ १३५ ॥ (१७१) त इत्यादि – यस्मात्ते पूर्ववृद्धाः जालैगले पाशैश्च तिरश्चां मृगपक्षिसरीसृपा- णां तिरोऽश्चतीति 'ऋत्विग्दधृस्रगदिगुष्णिगञ्चुयुजिक्रुच्चां च । ३।२।५९/ इति क्विन् । आमि ‘अचः | ६|४|१३८|' इत्यल्लोपः । तेषां निधनं विनाशमै - षिषुः इष्टवन्तः । इषेर्लुङि रूपम् । कीदृशाम् उपसेदुषां समीपमुपगतवतां तेषां समीपवर्तिनामुपद्रवकारित्वात् । 'भाषायां सदवसश्रुवः । ३।२।१०८ | इति कसुः । परदारैश्च सार्धमूपुषाम् उपितवताम् । पूर्ववत्कसुः । वसेर्यजा- दित्वात्संप्रसारणम् ॥ १३५ ।। अहं तु शुश्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा | उपेयिवाननूचाननिन्दितस्त्वं लतामृग ! ॥ १३६ ॥ अहमित्यादि -- हे लतामृग हे शाखामृग ! वालिन् इत्यर्थः । अहं पुनः शुश्रुवान् श्रुतवान् । 'भाषायां सदवसवः |२३|२|१०८।' इति क्वसुः । यदुतँ भ्रात्रा कनीयसा मुक्त स्त्रियं त्वमुपेयिवान् सन् अनूचानैवेंदावद्भिर्निन्दित- १ 'यज्वा तु विधिनेष्टवान्' इत्यमरः | २ 'यदि न प्रणयेद्वाजा दण्डं दण्डये- ब्वतन्द्रितः | झूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति मन्वाक्या परदारादिदूषकस्य त्वादृशंस्य हनन एव मादृशां सुकृतित्वं स्यात्, न त्वन्यथे- त्यभिप्रायणेदं वचनम् । पुरस्ताच्चायम्भावः स्फुटो भाव्येव । ३ यदुतेति कनिष्ठेन भ्रात्रा सुग्रीनेणेत्यर्थः । 'कनीयांस्तु रित्यर्थः । ४ कनीयसति sल्पयोः इत्यमरः । पुन - युवा