पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ षष्टः- पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृतजैर्द्विजैः । कौशल्याज ! शशाऽऽदीनां तेषां नैकोऽप्यहं कपिः ॥ १३१ ॥ पञ्च पञ्चत्यादि -- हे कौशल्याज कौशल्याजात, । कौशल्यायां जायत इति तत्सम्बुद्धौ ‘सप्तम्यां जनेर्डे: । ३ । २ । ९७ ।' इति डः । ये पञ्च पञ्चनखाः। 'शशक: शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः' इति । कृतजैः कृतयुगजातैः । पूर्ववत् डः । द्विजैद्विर्जातैः । 'अन्येष्वपि दृश्यते । ३ । २ । सप्तम्यामित्युपलक्षणम् । असतम्यामपि डो दृश्यते इत्यर्थः । भक्ष्याः भक्षणी- याः प्रोक्ताः । तेषाम्पञ्चनखानां भक्ष्याणाम्मध्य इत्यर्थः । अहमेकोऽपि न भविता । अहं कपिः । तत्किमिति हतोऽहं त्वयेति भावः ॥ १३१ ॥ १०१ ।। इति डः । कथं दुष्ठुः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि । आत्माऽनुजस्य जिहेषि सौमित्रेस्त्वं कथं न वा ॥ १३२ ॥ कथमित्यादि --स्वयमात्मना धर्मे दुष्ठुः दुःस्थ: सन् । 'अपदुःसुषु स्थ: ' इत्यौणादिकः कुप्रत्ययः । कथं प्रजा: पालयिष्यास नैव पालयितुं क्षमोभाव- ष्यसीत्यर्थः । प्रजापालनं हि धर्मवर्तिनैव कर्त्तुं शक्यं नतुत्वादृशेति भावः । 'उप सगैं च संज्ञायाम् । ३।२।१९९१ | इतने: । कथं वा सौमित्रेभ्रतुरात्मानु- जस्य स्वकनीयसो भ्रातुर्लक्ष्मणस्येत्यर्थः । आत्मानमनुजात इति'अनौ कर्मणि । ३।२।१००।' इति डः । न जिंद्वेष न लज्जसे ॥ १३२ ॥ मन्ये किंजमहं नन्तं त्वामक्षत्रिय रणे । (१७०) लक्ष्मणाऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः ॥ १३३ ॥ मन्य इत्यादि -- त्वामहं किंजं कुतोऽपि जातं न राजजातं मन्ये । 'पञ्च- म्यामजातौ |३|२|१८|' इति डः । नन्तं मारयन्तम् । अक्षत्रियजे रणे क्षत्रि- यादुजाते । हे लक्ष्मणाधिज लक्ष्मणाग्रज दुर्वृत्तं नोऽस्माकमनुजेन भ्रात्रा प्रयुक्तं प्रेरितम् । तत्र 'पञ्चम्यामजातौ' इत्युक्तं जातावपि दृश्यते । अक्ष- त्रियज इति । 'उपसंगँ च संज्ञायाम्' | ३|२|१९| इत्युक्तम् असंज्ञायामपि दृश्यते । लक्ष्मणाधिज इति । 'अनौ कर्मणि |३|२|१००।' इत्युक्तम् । अकर्मण्यपि दृश्यते । अनुज इति । सर्वत्र 'अन्येष्वपि दृश्यते | ३|२|१०१ |' इति डः || १३३ || इत्युपपदाधिकारः । १ 'स्वयमात्मना' इत्यमरोऽपि । २ 'ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथा- विधि | सर्वस्यास्य यथान्यायं कर्त्तव्यं परिरक्षणम् ॥' इति मनुस्मृतिः | दुष्टं वृत्तं चरितं यस्य तत्सम्बुद्धौ तथोक्त ।