पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( १७३ ) दैवमित्यादि -- नूनमवश्यं दैवमावयोः सुखं युगपदेककालं न विदधे नहि विहितवत् । 'डुधाञ् धारणपोषणयोः' परोक्षे लिट् । नित्वात्तङ् | आतो लोपः । यतो यस्मात्तत् दैवं शश्वत् नित्यं दुःस्थमननुकूलं नोऽस्माकं बभूव तस्मादिति ह । एवमकरोत् इत्येवं कृतवान् । यद्युगपदावयोः सुखविधानं तद्दुःस्थं शश्वद्रभूव । हाकरोदिति भूतानद्यतनपरोक्षे लिटि प्राप्ते 'हशश्वतोर्लङ् च ३ | २|११६।' इति लङ् । चकारात् लिट् । तत्र शश्वेच्छन्दे उपपदे लिडेवोदाहृतः न लङ् | हशब्दे लडेव न लिडपीति बोध्यम् ॥ १४० ।। ददौ स दयितां भ्रात्रे मालां चाइयां हिरण्मयीम् । राज्यं संदिश्य भोगांश्च ममार व्रणपीडितः ॥ १४१ ॥ ददावित्यादि- इ---स वाली दयितां ताराख्यां भ्रात्रे सुग्रीवाय ददौ, मालां चाग्र्यां श्रेष्ठां हिरण्मयीं सुवर्णघटितां ददौ । राज्यं सामात्यादिद्रव्यप्रकृतिम् । संदिश्य दत्त्वा । भोगांश्च राज्याङ्गानि संदिश्य । ममार प्राणांस्त्यक्तवान् । व्रण- पीडितः । अत्रापि परोक्षे लिट् ॥ १४१ ॥ तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया । किष्किन्धाऽद्विगुहां गन्तुं मनः प्रणिधे द्रुतम् ॥ १४२ ॥ पिण्डोदकादिकरणीयं कृत्वा सुग्रीवो तस्येत्यादि -- तस्य मृतस्य कर्तव्यं राघवाज्ञया 'गच्छ वर्षासमयमतत्यि शरद्यागमिष्यसि' इति आज्ञया किष्किन्धा- द्रिगुहां गन्तुं मनः प्रणिदधे कृतवान् । अत्रापि परोक्षे लिट् ॥ १४२ ॥ नामग्राहं कपिभिरशनैः स्तूयमानः समन्ता- दन्वग्भाव रघुवृषभयोर्वानरेन्द्रो विराजन् । अभ्यर्णेऽम्भःपतनसमये पर्णलीभूतसानुं किष्किन्धाद्रिं न्यविशत मधुक्षीबगुआरेफम् ॥ १४३ ॥ नामेत्यादि - वानरेन्द्र सुप्रीवः किष्किन्धाद्रि न्यविशत निविष्टवान् । ‘नेर्विशः । १ । ३ । १७ ।' इति तङ् । अशनैः सुष्ठु कपिभिः स्तूयमानः ! वर्तमाने लट् । तस्य कर्मणि विहितत्वात् 'लक्षणहेत्वोः क्रियायाः । ३ । । २ । १२६ ।। इति शानच् । नामग्राहं नाम गृहीत्वा । 'नाम्न्यादिशिग्रहो: १ शश्वन्निरन्तरमित्यर्थः । 'अभीक्ष्णं शश्वदनारते ।" इत्यमरः । २ राम- चन्द्रस्याज्ञया । यद्यप्यसौ वानरः, तथाऽपि तस्य देवांशत्वाद् देवप्रभावत्वाच्च राजान्तरवदन्तिम संस्कार: साम्प्रतमवाज्ञप्तं रामेण । अन्यथाऽनुजपत्तांगमन- दोषाभिधानमप्यपार्थमेवाभविष्यदिति तत्त्वम् ।